परिवर्तनीये  शास्त्रिस्तरीये पाठ्यक्रमे केचन परामर्शाः

 परिवर्तनीये  शास्त्रिस्तरीये पाठ्यक्रमे केचन परामर्शाः

                                                                                                                       डा. भवानीशङ्करभट्टराई
                                                                                                             पिण्डेश्वरविद्यापीठं – धराननेपालस्थम् 


    
नेपालसंस्कृतविश्वविद्यालयद्वारा वर्षद्वयपूर्वं सङ्घटितेयं पाठ्यक्रमपरिष्कत्री समितिरिदानीं शास्त्रिस्तरीयं परिवर्तनीयं पाठ्यक्रमप्रारूपं निर्माय विद्वद्भिः, सम्बद्धविभागसदस्यैश्च सहावश्यकं परामर्शं गृह्णन्नस्तीत्यनुभूय नितरां प्रमोदतेऽस्मन्मनः । आशासे भविष्ये छात्रैः सहाप्यवश्यं परामर्शं ग्रहिष्यतीति, यतो हि– पाठ्यक्रमनिर्माणस्याधुनिकपद्धत्यनुसारमुपर्युक्तानां त्रयाणामेव पक्षाणां परामर्शोऽनिवार्यः । एतन्मध्ये भाद्रमासस्य तृतीयसप्ताहे जुमप्रविधिमाध्यमेनाऽऽकारिते नव्यव्याकरणविषयके शास्त्रिस्तरीये पाठ्यक्रमपरामर्शोपवेश एष प्रतिनिधिरप्युपस्थित आसीत् । तत्र समित्या प्रस्तुते प्रारूपे सत्यावश्यके भवद्भिर्विभागसदस्यैरवश्यं परामर्शो देय इत्यनुद्धेन मयात्र केषाञ्चन भारतीयसंस्कृतविश्वविद्यालयानां नव्यव्याकरणविषयस्य, त्रिभुवनविश्वविद्यालयस्य कलास्नातककक्षायाश्च पाठ्यक्रमं  सामान्यतोऽवलोक्यात्र तैः सह वैषयिकम्, स्तरगतम्, अन्तः विषयात्मकम्, पूर्वापरकक्षात्मकम्, कक्षाभारात्मकञ्च सन्तोलनमस्ति  नवेत्यत्र सामान्यतः परीक्ष्यात्र केचन परामर्शाः प्रदीयन्ते । तस्मिन् क्रमे प्रथमतो नेपालसंस्कृतविश्वविद्यालयेन प्रस्तावितायाः शास्त्रिकक्षाया व्याकरणविषयकं पाठ्यक्रमप्रारूपमत्र भवतां पुरत  उपस्थाप्य ततोऽन्यैः सह तुलना क्रियते– 


१) शास्त्रिस्तरस्य व्याकरणविषयस्य प्रस्तावितपाठ्यक्रमप्रारूपम्


क) शास्त्री–१   अ) तिङन्ताध्ययनम्– १००    आ) कृदन्ताध्ययनम्–१००


ख) शास्त्री–२   अ) स्वरवैदिकं महाभाष्यञ्च–१००   आ) परमलघुमञ्जूषा–१००


ग) शास्त्री–३   अ) परिभाषेन्दुशेखरः–१००   आ) न्यायस्यानुमानशब्दखण्डौ–१००


घ) शास्त्री–४  अ) पौरस्त्यपाश्चात्यभाषाशास्त्रसमीक्षा–१००   आ)  शोधविधिर्विशिष्टाध्ययनञ्च–१००

२) सम्पूर्णानन्दविश्वविद्यालयस्य पाठ्यक्रमः, तद्वैशिष्ट्यञ्च


क. पाठ्यवस्तु – प्रौढमनोरमा–२५० (आदितः कारकान्तम्), स्वरवैदिकः–१००, न्यायसिद्धान्तमुक्तावल्या अनुमानशाब्दखण्डौ–५०, परमलघुमञ्जूषा–१००, महाभाष्यम्–२०० (आदितः षष्ठान्हिकम्), परिभाषेन्दुशेखरः–२००, लघुशब्देन्दुशेखरः–१०० (आदितः स्वादिसन्धिः) ।


ख. त्रिवर्षात्मकः पाठ्यक्रमः, अङ्कविभाजनम्–३००३००४००१०००, मूल्याङ्कनपद्धतिः– पूर्णतः परीक्षाश्रिता, लब्धाङ्केऽङ्कप्रदानपद्धतिः । 


ग.  त्रिवर्षात्मके पाठ्यक्रमेऽप्यधिकविषयवस्तुसन्निवेशः 


३) राष्ट्रियसंस्कृतसंस्थानस्य (दिल्ली) पाठ्यक्रमः, तद्वैशिष्ट्यञ्च


क. त्रिवर्षात्मकः षट्सत्रात्मकः (६ सेमेस्टर) पाठ्यक्रमः, बाह्यपरीक्षा–९०%, आन्तरिकं मूल्याङ्कनम्–१०%, शास्त्रिकक्षायामनिवार्यत्वेन सङ्गणकस्यापि सन्निवेशः ।


ख. आधुनिकच्छात्रेभ्यो लघुकौमुद्याः, परम्परितेभ्यस्तु तर्कभाषादीनां निर्धारणम् ।


४) लालबहादुरशास्त्री राष्ट्रियसंस्कृतसंस्थानस्य (दिल्ली) पाठ्यक्रमः, तद्वैशिष्ट्यञ्च


क. त्रिवर्षात्मकः षट्सत्रात्मकः (६ सेमेस्टर) पाठ्यक्रमः, मुख्यपाठ्यवस्तु– कौमुदी, प्रौढमनोरमा 
(पञ्चसन्धिः,कारकञ्च), महाभाष्यम् (१–४ आन्हिकम्), क्रेडिट आवर इति माध्यमेन समयनिर्धारणम्, व्याकरणविषयस्य १४०० पूर्णाङ्काः ।


५) त्रिभुवनविश्वविद्यालयीये कलास्नातकेऽङ्कविभाजनं तद्वैशिष्ट्यञ्च


क. पूर्णाङ्काः– २०००, (अनि.अङ्.–२००, अनि.नेपाली–१००, अनि. नेपालाध्ययनम्–१००, ऐच्छिककवर्गः–७००, ऐच्छिकखवर्गः–७००, इलेक्टिभ (इच्छाधीनः)–२००)


ख. चतुर्वषात्मकः पाठ्यक्रमः, आन्तरिकबाह्यश्चेति मूल्याङ्कनस्य द्विविधा पद्धतिः, आन्तरिकम्–३०%, परीक्षा–७०% । 


६) संस्कृतविश्वविद्यालयेन प्रस्ताविते व्याकरणविषयके पाठ्यक्रमप्रारूपे संशयः 


क. परिवर्तनशिखरारूढमिदं प्रारूपं वैषयिकम्, भावगतम्, अध्यापनसरणिगतम्, प्राविधिकञ्च नावीन्यं प्रदातुं शक्नोति नवेति,


ख. परिष्कृतिं नावीन्यञ्च व्यग्रतया प्रतीक्षमाणान् छात्रान् प्रारूपमिदं सम्बोधयति नवेति,


ग. छात्राणां पठनपद्धतिः साधना च प्रतिदिनं क्षयमुपगतेति सर्वैरनुभूतमेव, परिवर्तितायामवस्थायामपि समानस्यैव पाठ्यक्रमस्य निर्धारणादाधुनिकाश्छात्रा इमं पठितुं शक्नुवन्ति नवेति,


घ. प्रकृतस्य पाठ्यक्रमप्रारूपस्य लक्ष्यक्षेत्रं मूलतो गुरुकुलमेव प्रतीयते, परं संस्कृतविश्वविद्यालयेऽधिजिगांसूनां छात्राणामुपस्थितिः प्राक्शास्त्रिसंस्कृतमाध्यमिकविद्यालयाभ्यामपि दृश्यते, अतः छात्रा इमं प्रारूपं पठितुमर्हन्ति नवेति, 


७) शास्त्रिस्तरीये समग्रे पाठ्यक्रमप्रारूपे परामर्शः

नेपालसंस्कृतविश्वविद्यालयेन परिवर्तनीयस्य प्रस्तुतपाठ्यक्रमस्य प्रमुखाधारौ त्रिभुवन–सम्पूर्णानन्दसंस्कृतविश्वविद्यालयौ दृश्येते । पाठ्यक्रमोऽयं त्रिभुवनविश्वविद्यालयतः समग्रां संरचनां तथा सम्पूर्णानन्दतः कवर्गीयविषयगतस्वरूपं गृह्णाति । तौ समाश्रित्य प्रकृतप्रारूपं निर्मितं दृश्यते । अतः संस्कृतविश्वविद्यालयेन प्रस्ताविते शास्त्रिस्तरीये प्रकृते पाठ्यक्रमप्रारूपे निम्नानुसारं परामर्शो दीयते–

क. त्रिभुवनविश्वविश्वविद्यालयेन खवर्गस्य पूर्णाङ्कं ७०० कृत्वा इलेक्टिभ (चयनीय) विषयरूपेण कखाभ्यामतिरिक्तस्य २०० पूर्णाङ्कस्य तृतीयस्य गसमूहस्य चयनप्रस्तावः छात्रेभ्यः कृतः, तद्वदेव संस्कृतेऽपि खसमूहस्य पूर्णाङ्कं ७०० कृत्वा तृतीये वर्षे १०० अङ्कस्य इलेक्टिभविषयं निर्धार्य तत्र पत्रकारितायाः, पौरस्त्यविधिशास्त्रस्य, शिक्षणपद्धतेः, सङ्गणकप्रविधेर्वा (अथवा तादृशस्यैवान्यस्यापि व्याहारिक÷प्राविधिकविषयस्य) सामान्यपरिचयो वैकल्पिकत्वेन निर्धार्यः, एते सर्वेऽपि विषया विश्वविद्यालये स्थितैर्जनशक्तिभिः पाठयितुं शक्याः, व्यावहारिकाः प्राविधिकाश्च सन्ति । 


ख. तृतीयवर्षाय निर्धारितं संस्कृतवाङ्मयाध्ययनमिति शीर्षकं सङ्कोचीकृत्य नैपालसंस्कृतवाङ्मया– ध्ययनम् इति कार्यम्, विषयोऽयं संस्कृतेनाध्यापनीयम् ।

 
ग. त्रिभुवनविश्वविद्यालयेनान्तरिकमूल्याङ्कनाय निर्धारितः त्रिंशदङ्कोऽधिको जातः, अतः संस्कृतविश्वविद्यालयेनान्तरिकमूल्याङ्कनस्याङ्का (१०–२० % मध्ये) करणीयाः ।


८) व्याकरणविषयके पाठ्यक्रमप्रारूपे परामर्शः 


क. शास्त्रिप्रथमवर्षाय निर्धारितं तिङन्ताध्ययनम्, कृदन्ताध्ययनञ्चेति पत्रद्वयमेव कौमुदीप्रधानं जातम्, नीरसायाः कौमुद्याः क्रमशः पठनने छात्रेभ्यः पठन उत्साहभङ्गो जायते, अतः प्रथमे वर्षे तिङन्तेन सह महाभाष्यं द्वितीये च कृदन्तेन सह परमलघुमञ्जूषा निर्धाया । 


ख.व्याकरणपठनाय प्राक्शास्त्रिकक्षातोऽपि छात्रा आगच्छन्तीति विचार्य कौमुद्या एकस्मिन् पत्रे ४०० सङ्ख्यातोऽधिकानि सूत्राणि न निर्धारणीयानि ।


ग. व्याकरणे स्वरवैदिकयोर्निधारणं परिचयात्मकरूपेणैव कार्यम्, अतः शास्त्रिप्रथमे महाभाष्यस्यान्हिकद्वयं निर्धार्य तस्याङ्कभारः ६० तथा स्वरवैदिकयोः ४० विधेयः ।


घ. पाठ्यक्रमनिर्धारणक्रमे परमलघुमञ्जूषापरिभाषेन्दुशेखरप्रभृतिभ्यो ग्रन्थेभ्यः पाठनीया विषयाः स्पष्टतया निर्धायाः । 


ङ. शास्त्रितृतीयवर्षार्थं निर्धारितं न्यायसिद्धान्तविवेचनम् इति पत्रं विशिष्टाध्ययनार्थं (५० अङ्कभारेण) निधार्य तस्य स्थाने पञ्चसन्धिखण्डात्मकः प्रौढमनोरमाग्रन्थो निर्धार्यः । 


च. सप्तमपत्रस्य ‘ख’ खण्डे पाणिनीयेतरव्याकरणैः सह पाणिनीयव्याकरणस्य तुलना इति शीर्षकं निर्धार्य तत्र पाणिनीये व्याकरणे पूर्ववत्र्तिनामिन्द्रचान्द्रकाशकृत्स्नशाकटायनादीनां व्याकरणानां पश्चवत्र्तिषु कातन्त्र–सारस्वत–हैमादिषु व्याकरणेषु च पाणिनेः प्रभावः समुल्लेख्यः । 


छ. अष्टमपत्रे विशिष्टाध्ययनस्य विकल्पेन समागते शोधपत्रे पञ्चशीर्षकाणि सन्ति, तत्र निम्नशीर्षकाण्यपि समावेश्यानि–


अ. पाणिनीयेतरव्याकरणैः सह पाणिनीयव्याकरणस्य तुलना ।

अा. विद्यापीठस्थेन व्याकरणविभागेनोपवेशद्वारा निर्धारितं कमपि शीर्षकम् । 


इ.तुलनीयाभिर्नैपालभाषाभिः सह संस्कृतभाषायास्तुलना । 


९) निष्कर्षः 
 प्रथमतः प्रारूपं निर्माय ततः पाठ्यक्रमनिर्माणं शिक्षासिद्धान्तानुकूलं व्यावहारिकञ्च । इममेव व्यावहारिकं पन्थानमनुकुर्वन् नेपालसंस्कृतविश्वविद्यालयोऽयं विंशतिवर्षपूर्वेभ्यः शास्त्रीयं पाठ्यक्रमं रचयन्नस्ति । इमामेव पद्धतिमाश्रित्य गमिष्यमाना पाठ्यक्रमनिर्माणयात्राऽवश्यं साफल्यं सेत्स्यतीति विश्वस्यते । अनेन माध्यमेन निर्मीयमाणेन पाठ्यक्रमेण किं नावीन्यं प्रदास्यति ? अलसानाधुनिकाननेकत्र विभ्रमितान् पठनसंस्कृतितः पराङ्मुखान् साधनारहिताँश्च छात्रान् कथं सम्बोधयति ? प्राक्शास्त्रिप्रशिक्षणतो व्याकरणे समागतान् छात्राञ्च कथमाकर्षयति प्रभृत्यनेकासु शङ्कासु जागरितास्वपि भारतीयानामनेकेषां विश्वविद्यालयानां पाठ्यक्रमापेक्षया, कलाशास्त्रिकक्षायाः पाठ्यक्रमापेक्षया च सुन्दरतमं धावनमार्गं निर्मास्यतीति आशास्यते । माध्यमिकस्तरेण सह तादात्म्यम्, आधारभूतानां शास्त्रीयग्रन्थानां सन्निवेशः, पौरस्त्यपाश्चात्यभाषाशास्त्रयोः परस्परं तुलना, शोधप्रभृतयो विषयाश्चास्य प्रारूपस्य सबलपक्षाः सन्ति । तथैव नैपालस्य संस्कृतवाङ्मयस्य चाध्ययनमस्य मौलिकपक्षो वर्तते । एके पुस्तकनिर्धारणं हि पाठ्यक्रमनिर्माणं कथयन्ति, देशान्तरेषु तादृशप्रचलनेषु सत्स्वपि नैपालसंस्कृतविश्वविद्यालयेन पूर्वमपि नैपालपरम्परां शिक्षाशास्त्रीयमर्यादाञ्चाश्रित्य पाठ्यक्रमाङ्गभूतानां बहूनामङ्गानामुपयोगेन पाठ्यक्रमो निर्मित आसीत्, तमेव मार्गमनुसृत्य भविष्येऽपि पाठ्क्रमस्याङ्गभूतानि परिचय–स्तरगतयोग्यता–कक्षागतशिक्षणोपलब्धि–विषयवस्तुनः क्षेत्रक्रम–क्रियाकलाप–शिक्षणसहजीकरणप्रक्रिया–मूल्याङ्कन–विशिष्टीकरणतालिका–दीनि तत्वान्युपयुज्य पाठ्यक्रमं निर्मास्यत इति विश्वस्यते । प्रकृतं प्रभातभूतं प्रारूपं शास्त्रीयं स्तरीयं लोकानुकूलञ्च दिवास्वरूपं पाठ्यक्रममानेष्यतीति आशास्यन्नस्य साफल्यं कामये ।
   

प्रतिक्रियार्थम् - dikshitbhattarai072@gmail.com 
       
  

भवतः का प्रतिक्रिया ?

like
12
dislike
0
love
0
funny
2
angry
0
sad
0
wow
3
विज्ञापनक्षेत्रम्
विज्ञापनक्षेत्रम्