बहुभाषापुस्तकस्य बिषये विमर्शः सम्पन्नः

सूर्यवाणी समाचारः

बहुभाषापुस्तकस्य बिषये विमर्शः सम्पन्नः

 आश्विनः  शुक्लचतुर्थी ।

साेमवासरः 

गतस्य  भाद्रमासस्य  चतुर्थे  दिनांके  विश्वरक्तदाता इति  बहुभाषात्मकं  पुस्तकं  सामाजिकसञ्जालमाध्यमेन लोकार्पितम् ।    अस्मिन् पुस्तके    विश्वरक्तदातुः अर्जुनप्रसादमैनालीमहोदयस्य  संक्षिप्तः   परिचयः,   तदीयवैश्विकरक्तदानाभियानञ्चेति   विषये   एकादशभाषासु वर्णितमस्ति । ज्ञानुअधिकारी    अस्य    नेपालिभाषायां    मूलप्रतिं सम्पादितवती ।   तदनु   पञ्चोत्तरशतपृठात्मकस्य अस्य पुस्तकस्य  सुजित–झा  मैथिलीभाषायां,  सोमप्रसादचौधरी थारुभाषायां, अमृतयोन्जनतामाङ तामाङभाषायां, मचाकाजीमहर्जनः नेपालभाषायां, पवित्रकासा नेपालभाषायां,  हीरामतीराना,  विष्णुकुमारसिङ्जाली  च मगरभाषायां, प्रेमलिम्बुः, निशामलिङ्लेकु च लिम्बुभाषायां, रसकुमारी गुरुङः  गुरुङभाषायां,  सोनाम–याङ्गजीशेर्पाभाषायां डा.नवराजकट्टेलः संस्कृतभाषायां, प्रकाशसिंहः, श्यामथापा च  अाङ्गलभाषाया अनुवादमकुर्वन् । अस्य  पुस्तकस्य प्रकाशनं  नेपालरक्तदातृसंघेन  (ब्लडडोनर्स–एसोसिएसन–नेपाल इत्यनेन) कृतम् अस्ति ।


अस्यैव पुस्तकस्य विषयं समालम्ब्य भाद्रमासस्य २३ दिनांके जूममाध्यमेन एका विमर्शगोष्ठी जाता । कार्यक्रमस्यय सञ्चालनं आचार्यपिपलमणिसिग्देलः  अकरोत् । NRNA-NCC  नेपालिभाषासाहित्यसंरक्षणसंवद्र्धन–समित्याः समायोजने बहुभाषापुस्तकसमीक्षा समायोजिता । समित्याः संयोजकस्य   सर्वज्ञवाग्लेमहोदयस्य   साभापत्ये   जयतु संस्कृतमिति संस्थायाः  अध्यक्षस्य  डा.  बद्रीपोख्रेलस्य प्रमुखातिथ्ये च कार्यक्रमः सञ्चालितः आसीत् । 


तदवधौ  कार्यक्रमस्य  विशेषातिथिः अध्यक्षः  सुनीलशाहः राजेन्द्र अर्यालः, अर्जुनमैनाली, कृष्णगिरिः, सुरेन्द्रमल्लः ल्च्ल्ब् क्यालिफोर्नियाप्रभागस्य अध्यक्षः परशुरामभण्डारी, छत्रपतिदाहालः, प्रकाशपाण्डे, विनोदकारााला च अर्जुनप्रसादमैनालीमहोदयस्य वैयक्तिकं वृत्तमवलम्ब्य  लिखितस्य  बहुभाषापुस्तकस्य महत्त्वम् अप्रकाशयन् ।  थारुभाषायाः  अनुवादकः  सोमप्रसादथारुः, नेपालभाषायाःअनुवादकः मचाकाजीमहर्जनः, संस्कृतभाषायाः अनुवादकः डा.नवराजकट्टेलः, आङ्गलभाषायाः  अनुवादकः  प्रकाशसिंहः, मगरभाषायाः अनुवादकः  विष्णुकुमाीसिङजाली  च  बहुभाषात्मकस्य पुस्तकस्य    महत्त्वं  रक्तदानप्रचारस्य    महत्त्वञ्च प्रतिपादितवन्तः ।

                                                                                                    -गाेरखापत्रतः 

भवतः का प्रतिक्रिया ?

like
1
dislike
0
love
0
funny
1
angry
0
sad
0
wow
0
विज्ञापनक्षेत्रम्
विज्ञापनक्षेत्रम्