कालिदासस्य अभिज्ञानशाकुन्तलस्य प्रथमाङ्कस्य कथासारः

शृङ्गाररसस्य चामत्कारिकः कविव्याघ्रः महाकविकालिदासस्य कृतीषु मध्ये अभिज्ञानशाकुन्तलम् सुप्रसिद्धं नाटकमस्ति ।

  कालिदासस्य अभिज्ञानशाकुन्तलस्य प्रथमाङ्कस्य कथासारः

                                                                                                                              –नरेन्द्रः पराशरः
                                                                                                                    आनन्दाश्रमः रतुवामाई-४, मोरङ्गः

महाकविः कालीदासः


शृङ्गाररसस्य चामत्कारिकः कविव्याघ्रः महाकविकालिदासस्य कृतीषु मध्ये अभिज्ञानशाकुन्तलम् सुप्रसिद्धं नाटकमस्ति । एतस्मिन् नाटके सप्ताङ्काः सन्ति । प्रथमाङ्कः नाट्यशास्त्रस्य विधानानुसारेण रङ्गविघ्नोपशान्त्यर्थं नान्द्याशीर्वचनेन सहितमारम्भो भवति । भगवतोऽष्टमूर्तिरूपस्य शिवस्यार्चना सहिता स्रग्धराछन्दसि नान्दीप्रस्तुताऽस्ति । यथा—
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रसन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ।।
तत्पश्चात् सूत्रधारः नटीं आमन्त्र्य नाटकस्य पृष्ठभूमिं प्रकाशयति । नटी ग्रीष्मर्तोः गानं गायति । सूत्रधारः तस्याः गानस्य गायनस्य च प्रशंसां करोति ।
यथा—
तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ।।
हे नटि तव आकर्षकेन गानेनाहं बलादाकृष्टोऽस्मि यथा राजादुष्यन्तः गतिमानेन मृगेण आकृष्टो वर्तते इत्यर्थम् । तदनन्तरं सघने वने राजादुष्यन्तः रथस्थः सारथिना सह दृश्यते । मृगयार्थं तौ वनं रथेन गच्छन्तौ स्तः । राजा मृगाणामन्वेक्षणं कुर्वन् वने यत्रतत्र अवलोकयति । तस्मिन्नेव क्षणे सारथिः तं राजादुष्यन्तं एकं मृगं दर्शयति । राजा धनुषि वाणं आरोप्य मृगमनुगच्छति ।  
आखेटिकराजां दृष्ट्वा मृगः शीघ्रं पलायते । राजापि नितरां मृगं अनुधावति । मृगम् अनुगतः राजा उपयुक्तस्थाने तं मृगं धनुरूध्यम्य लक्षीकरोति । 
“न हन्तव्यः राजन् न हन्तव्यः । अयम् अस्माकम् आश्रमस्य निरपराधः कोमलः मृगः अस्ति” इति दैवसंयोगात् तत्र एकः घोषः श्रूयते । यस्मात् स्थानात् अयं नादः आगतः राजा तत्र पश्यति । 
तत्र द्वे ऋषी दृश्येते । वैखानस इति नामकः एकः ऋषिः नृपस्य समीपे गत्वा “भवतः शस्त्रं तु दीनाना ंप्रजानां रक्षार्थाय भवति निरपराधाना ंहत्वार्थ ंनास्ति ।” इति सः निवेदनं करोति । तच्छ«ुत्वा राजा अपि हर्षितो वर्तते । अनेन प्रकारेण तौ आश्रमवासिनौ राजानं अनुनयं कृत्वा नृपात् मृगं रक्षतः । ऋषिद्वयेन सह राज्ञः समधिकः संवादः भवति । आश्रमवासिनौ ऋषी नृपम् आश्रमभ्रमणार्थम् अनुरोधं कुरुतः । 
राजादुष्यन्तः तयोः अनुरोधं स्वीकार्य ऋष्याश्रम ंप्राप्नोति । सारथिं रथं च बहिः स्थाप्य राजा राजकीयवस्त्राणि परित्यज्य साधारणभेषं धारयित्वा आश्रमपरिसरे प्रविशति । लताकुञ्जेन युक्तःआश्रमः अतीवः मनोरमः दृश्यते । आश्रमस्य वनस्पतयः पक्षिणः जन्तवः कीटपतङ्गादयः च निर्भयाः परिदृश्यन्ते । शीतलः वायुः प्रवहति । अनेकानेकानां पक्षिणां कलरवाणि मधुराणि श्रूयन्ते । राजा ऐकान्तिकं मनोभिरामम् आश्रमम् अवलोक्य प्रसन्नो भवति । तस्मिन्नेव क्षणे नृपस्य दक्षिणहस्तं मन्दं स्फुरति । एषः तु ऋषिराश्रमोऽस्ति परन्तु भवितव्यानां द्वाराणि सर्वत्र भवन्ति इति विचिन्त्य सः अग्रे गच्छति । यतोहि नरस्य दक्षिणहस्तस्य स्फुरणं नारीप्रीतिप्राप्त्याः सङ्केत ंभवतीति लोकप्रचारोऽस्ति । तत्रैव सः राजादुष्यन्तः युवतीनां मधुरहासस्य सन्नादं श्रृणोति । 
“ऋषेः सुताः स्युः” इति विचार्य सः सावधानः भवति । किञ्चित् दूरे तिस्रः युवत्यः पुष्पाणां पादपाञ्च जलसिञ्चनं कुर्वन्त्यः सन्ति । राजा ताषां वार्तां श्रृणोति एवमेव अभिनयं पश्यति च । ताः परस्परम् अनेकां युवतीसुलभां वार्तां कृत्वा उद्याने रमन्त्यः सन्ति ।  एकान्तस्थाने युवत्यः यथा परिरमन्ते तथा ताः तत्र स्वतन्त्रतापूर्वकेन प्रेम्णः विवाहस्य च वार्तां कृत्वा प्रफुल्लिताः दृश्यन्ते । तिसृणां युवतीनां मध्ये एका तु अतुलनीया सुन्दरी मनोरमा च । कस्य पुत्री स्यात् इति चिन्तनं कृत्वा राजादुष्यन्तः कुञ्जे गुप्तरूपेण तां अवलोकते । तस्मिन्नेव क्षणे तासां युवतीनां समीपे अकस्मात् एकः भ्रमरः वेगेन आगच्छति । सः भ्रमरः ताः बाधां भयञ्च उत्पादयति । द्वे युवत्यौ पलायनं कुरुतः । एका युवती तेन भ्रमरेण सह प्रतिवादं करोति । तस्मिन्नेव क्षणे राजा तस्याः समीपं गत्वा तां भ्रमरभयात् त्रायते । 
पलायिते कन्ये च आगच्छतः । ते परस्परं परिचयं कुर्वन्ति । राजा स्वपरिचयं सम्यग्रूपेण न दत्वा अहं तु राजाधिकारी अस्मि इति भणित्वा ताभिः सह अनृतेन व्यवहरते । 
आश्रमस्य वने आखेटकः राजा प्रविष्टः अस्ति तस्मात् सावधानं सावधानम् इति गुञ्जनं श्रूयते तस्मिन्नेव काले ।। एतच्छ्र«ुत्वा दुष्यन्तः दुःखम् अनुभवति । नृपस्य स्थूलकायरथं दृष्ट्वा भीतः मदोन्मत्तः च  गजः वने आश्रमसमीपे आगत इति पुनः अपरः उच्चः ध्वनिरागच्छति । ताः युवत्यः एव ंआश्रमवासिनः च भयभीताः वर्तन्ते । क्षम्यताम् इति अनुरोधं कृत्वा युवत्यः दूरे गच्छन्ति ।
तस्मिन् क्षणे राजा अपि शकुन्तलया सहानुगन्तुमिच्छति । तस्य मनःविचलितं भवति । मम शरीरम् अग्रे गच्छति परन्तु यथा वेगवतः वायोः प्रहारेण केतोः चीनांशुकध्वजं पश्चाद् उड्डीयते तथा मम मनः अपि अपरिचितक्षेत्रं गच्छति इति सः मनसि कथयति । यथा आर्याछन्दसि—
गच्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः ।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ।।
किंकर्तव्यविमूढः राजादुष्यन्तः तत्र एकाकी उपविशति ।
अस्तु ।

भवतः का प्रतिक्रिया ?

like
9
dislike
1
love
2
funny
4
angry
0
sad
0
wow
0
विज्ञापनक्षेत्रम्
विज्ञापनक्षेत्रम्