संपादकीयः

जानाति विविधा भाषा जानाति विविधा कला । आत्मानं नैव जानाति याे न जानाति संस्कृतम् ।।

संपादकीयः

                                                                                                                             अभिमन्युः अभिजित्
                                                                                                                                        संपादकः
 
                                                               
                                                             सर्वेभ्यः संस्कृतोपासकेभ्यो नमः ।
संस्कृतवाङ्मयस्य सर्वप्राचीनत्वं सुतरां सिद्धम् । संस्कृतवाङ्मयस्य अधुनापि प्रभावः यूरोपीयदेशेषु अमेरिकायां तथा दक्षिण-एशियां चीन-भारत-नेपाल-भुटानप्रभृतिषु राष्ट्रेषु च अधिकोऽस्ति।

संस्कृतभाषा न केवलं भाषा, सतस्तविश्वभाषाणां च जननी इति तु सर्वे जानीमः एव। तथापि एषा भाषा सदाचारस्य परोपकारस्य नीतिनैपुण्यस्य च सम्वर्द्धिका च अस्ति। एतस्याौ भाषायाः माध्यमेन एव पौरस्त्य-दर्शनानां इतिहासपुराणानां च पठनं सम्भवति। पुराणेषु वेदेषु च कथितानां रहस्यमयानां तथ्यानामुल्लेखानाम् इदानीं घटितानां घटनानां च पूर्वमेव वर्णनं दृश्यते । अतस्तद् ज्ञातुं तस्य मननं कर्तुञ्च एतस्याः भाषायाः आवश्यकता दृश्यते।

अमेरिकाप्रभृतिषु राज्येषु अक्सफोर्डादिविश्वविद्यालेषु च संस्कृत-वाङ्‍मयस्य अध्ययनाध्यपनार्थं संस्कृतभाषायाः पाठ्यक्रमो वर्तते। चीनदेशे जर्मनीदेशे च संस्कृत-विश्वविद्यालयाः स्थापिताः सन्ति तत्र बहुभ्यः देशेभ्यः संस्कृतानुरागिण आगत्य जानन्ति पठन्ति च। एषः समाचारः अस्माकं कृते मननीयः विषयोऽस्ति।

नेपाल-भारतयोर्मध्ये प्राचीनत एव सांस्कृतिकः धार्मिकः राजनीतिकश्च सम्बन्धः प्रगाढरूपेण प्रचलन्नस्ति । नेपाले राणाशासनतः पूर्वं काऽपि पाठशाला नासीत् तदा नेपालिनः केचन जनाः भारतङ्गत्वा पठन्ति स्म। १८३२ तमे भोजपुरमण्डले एकस्य आबालब्रह्मचारी षडानन्दनाम्नः महापुरुषस्य जन्म अभूत्। सः ब्रह्मचारी भारतदेशे विविधानि शास्त्राणि अधीत्य निपुणस्सञ्जातः। तेनैव प्रथमतया नेपाले भोजपुरमण्डले दिङ्लानाम्नि स्थाने एका पाठशाला स्थापिता । संस्कृतानुरागिणां बुधजनानां नेपालीयजनानां कृते एतदेव कार्यं प्रमोदवर्धकेतिहासरूपेण अद्यापि गीयते। ब्रह्मचारिणा सांस्कृतिकि शैक्षिकी च एका क्रान्तिः कृता। तस्मादेव नेपाले संस्कृतभाषायाः पठनपाठनस्य उत्कण्ठा जागृता।

बहुषु स्थानेषु पाठशालानां सञ्चालनं सम्वर्द्धनञ्च प्रारब्धम् । त्रिभुवन-विश्वविद्यालयस्य स्थापना जाता। जनानां कृते शिक्षा महती आवश्यकी अस्ति इति बोधः शनैः जातः । दधिराममरासिनीप्रभृतयो विद्वांसः स्वर्गद्वारी-महाप्रभुः योगी नरहरिनाथः गलेश्वरबाबा परमानन्दसरस्वती आदयः साधवश्च संस्कृतस्य संस्कृतेश्च जागरणाय कार्यं कृतवन्तः ।

जनाः यदि शिक्षिताः भवेयुः तर्हि ते तेषां कृते बाधकाः भवन्तीति ज्ञात्वा शासकाः पठनपाठन-परम्परायाः विरुद्धानि एव कार्याणि कुर्वन्ति स्म । १९१० तमे दरबार-हाइस्कुलेति नाम्ना एका पाठशाला शासकानां सन्ततीनां कृते स्थापिता । समयः परिवर्तनशीलोऽस्ति। २००७ तमे वर्षे नेपाले राजनीतिक-परिवर्तनं सञ्जातम्। ततः एव जनानां कृते शिक्षा अनिवार्या इति विचारः जातः ।

इदानीं संस्कृतभाषायाः विश्वस्तरे चर्चा प्रचलन्ती अस्ति। सुसाङ्ख्ययन्त्रे मानकभाषारूपेण कापि भाषा असमर्थेति प्रसङ्गे संस्कृतभाषा एव समर्था इति वैज्ञानिकाः उक्तवन्तः। एषः संस्कृतभाषायाः ध्वनि-व्याकरण-पदविन्यासादीनां स्पष्टतायाः कारणेनैव सम्भवः । संस्कृतभाषायाः वैश्विकी उपस्थितिः संभवति चेत् अस्माभिः एतस्याः कृते किन्न करणीयमिति चिन्तितवन्तः।

नेपाले अधुना अधिकानि गुरुकुलानि सन्ति। नेपाल-संस्कृत-विश्वविद्यालयश्चास्ति योगिनरहरिनाथेन संस्थापितः । अन्येषु विश्वविद्यालयेष्वपि संस्कृतस्य अध्यनाध्यापनं भवति। भारतदेशे बहवो विश्वविद्यालयाः बहूनि संस्थानानि विद्यापीठानि च सन्ति। एतानि संस्थानानि संस्कृतसंवर्द्धनहेतोः अनेकानि कार्याणि कुर्वन्ति सन्ति ।

विज्ञानदृष्ट्या संस्कृतेर्दृष्ट्या च महती गुणयुता संस्कृतभाषा अस्माकं राष्ट्रियभाषा किन्न भवेदिति चिन्तया अस्माभिः एकः प्रकल्पः कृतः - एका जालवृत्तिः स्थापनीया इति। जयतु संस्कृतम् इति संस्कृतभाषासंवर्द्धिनी एका प्रौढा संस्था अस्ति। तया संस्थया च वयं सहाय्यं कुर्मः, संस्कृतभाषायामेका जालवृत्तिः (अनलाइन पत्रिका इति) स्थापनीया इति चिन्ता व्यक्ता। अतः संस्कृतसंवर्द्धनाय राष्ट्रस्य सूचनाधिकारस्य प्रयोजनाय च एका पत्रिका आरब्धा।

पत्रपत्रिकानां सञ्चालनार्थं महान् बिषयोऽस्ति- आलेखः कः? केन लिखितः? कस्मिन् विषये लिखितः? नैरन्तर्यं भविष्यति वा न वा? इति। तथापि प्रथमदिनादेव संस्कृतभाषायां कथां कवितां आलेखञ्च लिखित्वा महानुभावाः प्रेषयन्तः सन्ति। पाठकाश्च एधमानाः सन्ति।

नेपाले सञ्चालितायाः एषा संस्कृतभाषायाः एका एव जालवृत्तिः। अत्र नेपालीभाषायामपि आलेखं प्रकाशयामः। आङ्गलभाषायाः विश्वप्रभावं दृष्ट्वा एतस्यापि आलेखाः प्रकाशिताः सन्ति । आङ्गलभाषा नेपाली संस्कृञ्च अत्र विकल्पभाषारूपेण स्थापितम् । एतस्याः सञ्चालनाय आर्थिक-नीतिक-बौद्धिकानि सहाय्यानि आवश्यकानि भवन्त्येव । अतः संस्कृतानुरागिणः लेखं प्रतिक्रियां केषांश्चित् संस्थानां विज्ञापनं च दत्त्वा एतस्याः सुदृढीकरणाय साहाय्यं कुर्वन्तीति विश्वासः ।

जालवृत्तेस्संयोजनार्थं सम्राड्गौतममहाभागाय प्राविधिकरूपेण सौगातघिमिरे महाभागाय च हृदयतः सधन्यवादः। तथा च विद्यावारिधिकः उपप्राध्यापकः भवानीशङ्करः भट्टराई, उपप्राध्यापकः विद्यावारिधिकः महानन्दः तिम्सिना, पिण्डेश्वरविद्यापीठम् तथा तस्य प्राचार्यः विद्यावारिधिकः प्राध्यापकः चन्द्रमणिः नेपालः, जयतु संस्कृतम् इति संस्था, सहप्रा. डा गुरुप्रसादः सुवेदी, आचार्यः मनोजः भण्डारी , उपप्राध्यापकः दीपकः पराजुली एभ्यश्च शुभचिन्तकेभ्यः मार्गदर्शकेभ्यश्च वारं वारं नमामि ।।।।

भवतः का प्रतिक्रिया ?

like
12
dislike
0
love
4
funny
3
angry
0
sad
0
wow
2
विज्ञापनक्षेत्रम्
विज्ञापनक्षेत्रम्