बक-कर्कटकः - लघुकथा

भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान् ।      अतिलौल्याद् बकः कश्चिन्मृतः कर्कटग्रहात् ।।

बक-कर्कटकः - लघुकथा

"भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान् ।
     अतिलौल्याद् बकः कश्चिन्मृतः कर्कटग्रहात् ॥"



अस्ति कस्मिंश्चिद्वनप्रदेशे नानाजलचरसनाथं महत्सरः । तत्र च कृताश्रयो बक एको वृद्धभावमुपगतो मत्स्यान् व्यापादयितुमसमर्थः । ततश्च क्षुत्क्षामकण्ठः सरस्तीर उपविष्टो मुक्ताफलप्रकरसदृशैरश्रुप्रवाहैर्धरातलमभिषिञ्चन् रूरोद । एकः कुलीरको नानाजलचरसमेतः समेत्य तस्य दुःखेन दुःखितः सादरमिदमूचे -- "माम ! किमद्य त्वया नाहारवृत्तिरनुष्ठीयते । केवलमश्रुपूर्णनेत्राभ्यां स निःश्वासेन स्थीयते ।" स आह -- "वत्स सत्यमुपलक्षितं भवता, मया हि मत्स्यादनं प्रति परमवैराग्यतया सांप्रतं प्रायोपवेशनं कृतम् , तेनाहं समीपगतानपि मत्स्यान्न भक्षयामि ।"

कुलीरकस्तच्छ्रु त्वा प्राह -- "माम! किं तद्वैराग्यकारणम् ?"

सप्राह -- "वत्स! अहमस्मिन्सरसि जातो वृद्धिं गतश्च । तन्मयैतच्छ्र तं यद् द्वादशवार्षिक्यानावृष्टिः संपद्यते लग्ना ।"

कुलरीक आह -- "कस्मात्तच्छ्रतम् ?"

बक आह -- "दैवज्ञमुखात्। एष शनैश्र्चरो हि रोहिणीसकटं भित्त्वा भौमं शुक्रं च प्रयास्यति ।" उक्तञ्च वराहमिहिरेण --


      यदि भिन्ते सूर्यसुतो रोहिण्याः शकटमिह लोके ।
      द्वादशवर्षाणि तदै नहि वर्षति वासवो भूमौ ॥
    तथा च --
      प्राजापत्ये शकचे भिन्ने कृत्वेव पातकं वसुधा ।
      भस्मामास्थिषकलकीर्णा कापालिकमिव व्रतं धत्ते ॥
    तथा च --
      रोहिणीशकटमर्कनन्दनश्चेद्भिनत्ति रुधिरोSथवा शशी ।
      किं वदामि तदनिष्टसागरे सर्वलोकमुपयाति संक्षयम् ॥
      रोहिणीशकटमध्यसंस्थिते चन्द्रमस्य शरणीकृता जनाः ।
      क्वापि यान्ति शिशुपाचिताशनाः सूर्यतप्तभिदुराम्बुपायिनः ॥

तदेतत्सरः स्वल्पतोयं वर्तते, शीघ्रं शोषं यास्यति । अस्मिञ्छुष्के यैः सहाहं वृद्धिं गतः सदैव क्रीडितश्र्च ते सर्वे तोयाभावान्नाशं यास्यन्ति; तत्तेषां वियोगं द्रष्टुमसमर्थः । तेनैतत्प्रायोपवेशनं कृतम् । सांप्रतं सर्वेषां स्वल्पजलाशयानां जलचरा गुरुजलाशयेषु स्वस्वजनैर्नीयन्ते । केचिच्च मकरगोधाशिशुमारजलहस्तिप्रभृतयः स्वयमेव गच्छन्ति । अत्र पुनः सरसि ये जलचरास् ते निश्चिन्ताः सन्ति । तेनाहं विशेषाद्नोदिमि, यद् बीजशेषमात्रमप्यत्र नोद्धरिष्यति ।"

ततः स तदाकर्ण्यान्येषामपि जलचराणां तत्तस्य वचनं निवेदयामास । अथ ते सर्वेभयत्रस्तमनसो सत्स्यकच्छपप्रभृतयस्तमभ्युपेत्य पप्रच्छुः -- "माम! अस्ति कश्चिदुपायो येनास्माकं रक्षा भवति ?"

बक आह -- "अस्तस्य जलाशयस्य नातिदूरे प्रभूतजलसनाथं सरः । पद्मिनीखण्डमण्डितं यच्चतुवि शत्यापि वर्षाणामनावृष्टया न शोषमेष्यति । तद्यदि मम पृष्ठं कश्चिदारोहति तदहं तं तत्र नयामि ।"

अथ ते तत्र विश्वासमापन्नाः "तात, मातुल, भ्रातः ! "इति ब्रुवाणा अहं पूर्वमहं पूर्वम् , इति समन्तात्परितस्थुः । सोsपि दुष्टाशयः क्रमेण तान् पृष्ठे आरोप्य जलाशयस्य नातिदूरे शिलां समासाद्य तस्यामाक्षिप्य स्वाच्छया भक्षयित्वा भूयोSपि दलासयं समासाद्य जलचराणां मिथ्यावार्तासन्देशकैर्मनांसि रञ्जयन्नित्यमेवाहारवृत्तिमकरोत् ।

अन्यस्मिन्दने च कुलीरकेणोक्तः -- " माम! मया सह ते प्रथमः स्नेहसंभाषः सञ्जातः तत्किं मां परित्यज्यान्नयसि ? तस्मादद्य मे प्राणत्राणं कुरु ।"

तदाकर्ण्य सो S पि दुष्टाशयश्चिन्तितवान् -- "निर्विण्णो S हं मत्स्यमांसादनेन, तदेद्यैनं कुलीरकं व्यञ्जनस्थाने करोमि ।" इति विचिन्त्य तं पृष्टे समारोप्य तां वध्यशिलामुद्दिश्य प्रस्थितः । कुलीरकोsपि दूरादेवास्थितपर्वतं शिलाश्रयमवलोक्य मत्स्यास्थीनि परिज्ञाय तमपृच्छत् -- "माम! कियद् दूरे स जलाशय ? मदीयभारेणातिश्रान्तस्त्वम् तत्कथय ?"

सोSपि मन्दधीर्जलचरोSयं स्तले न प्रभावतीति मत्वा सस्मितमिदमाह -- "कुलीर ! कुतयोSन्यो जलाशयः ? मम प्राणयात्रेयम् । तस्मात्स्मर्यतात्मनोSभीष्टदेवता, तवामप्यसयां शिलायां निक्षिप्य भक्षयिष्यामि ।" इत्युक्तवति तस्मिन् स्ववदनदंशद्वयेन मृणालनालधवलायां मृदुग्रीवायां गृहीतो मृतश्च ।



अथ स तां बकग्रीवां समादाय शनैः शनैस्तज्जलाशयमाससाद । ततः सर्वैरेव जलचरैः पृष्टः -- "भोः कुलीरक! किं निवृत्तस्त्वम् ? स मातुलोSपि नायातः । तक्तिं चिरयति वयं सर्व सोत्सुकाः कृतक्षणास्तिष्ठामः ।"



एवं तैरभिहिते कुलीरकोSपि विहस्योवाच -- "मूर्खाः! सर्वे जलचरास्तेन मिथ्यावादिना वञ्चयित्वा नातिदूरे शिलातले प्रक्षिप्य भक्षिताः । तन्ममायुः शेषतया तस्य विश्वासघातकस्याभिप्रायं ज्ञात्वा ग्रीवयेमानीताः तदलं संभमेण, अधुना सर्वजलचराणां क्षेमं भविष्यति । "

-साभारः

भवतः का प्रतिक्रिया ?

like
3
dislike
0
love
1
funny
0
angry
0
sad
0
wow
0
विज्ञापनक्षेत्रम्
विज्ञापनक्षेत्रम्