अवसराणाम् उपयोग : चिन्तनीयः

धनसम्पादनाय अस्य अवसरस्य उपयोगम् अकृत्वा संस्कृतज्ञाः एतादृशे मार्गपरिकल्पनोद्यमे यदि उद्यताः भवेयुः तर्हि अनूह्यः लाभः भविष्यति इत्यत्र नास्ति संशीतिः ।

अवसराणाम् उपयोग : चिन्तनीयः

विद्यालयानाम् आरम्भकालः एषः । किन्तु रोगप्रसारभीतिकारणतः क्वापि विद्यालयाः न आरब्धाः । विद्यालयानाम् आरम्भाय सर्वकारैः अनुज्ञा न दत्ता । विद्यालयेषु बालाः सामूहिकतया तिष्ठन्ति इत्यतः तत्र रोगप्रसारसम्भावना अधिका । मुखावरणं धर्तव्यम् इति नियमस्य अन्वयः , परस्परम् अन्तरं यथा स्यात् तथा उपवेशनम् इत्यादयः कष्टेन साध्येरन् चेदपि विद्यालये आरब्धे , रोगप्रसारस्य निग्रहणं कर्तुं शक्येत इत्यत्र न कस्यापि विश्वासः । पालकाः बालान् विद्यालयं प्रेषयितुं न सज्जाः । तस्मात् विद्यालयानाम् आरम्भविषये अस्पष्टता जागर्ति इतोऽपि । केचन विद्यालयाः अन्लाईनमाध्यमेन पाठनम् आरब्धवन्तः दृश्यन्ते । किन्तु ततः यत् अध्यापनं भवेत् तत् प्रयोजनाय भवेत् किम् इति प्रश्नः अनुत्तरितः तिष्ठति । छात्राः आदिनं यन्त्राणां पुरतः स्थातुं न अर्हन्ति । यदि गृहे द्वित्राः बालाः स्युः तर्हि तावतां यन्त्राणां व्यवस्थापनं चिन्तनीयं पालकैः । आदिनं यन्त्रदर्शनं यदि क्रियेत तर्हि नेत्रयोः श्रोत्रयोः च महती हानिः भवेत् । अल्पवयस्कानां शिक्षणाय पालकैः अपि गृहे भवितव्यम् । अतः एव सर्वकारैः एतादृशस्य शिक्षणस्य निषेधः निस्सारताज्ञापनं च क्रियमाणं वर्तते ।

 विद्यालयशिक्षणे या एषा समस्या बाधते तस्याः परिहाराय शिक्षणतज्ज्ञाः अन्ये नायकाः च चिन्तनं कुर्वन्तः सन्ति । परिहारमार्गः आगामिषु दिनेषु स्पष्टः भवेत् ।

 संस्कृतक्षेत्रस्य आनुकूल्यं नाम गृहे तिष्ठन्तः , विरामवन्तः च जनाः इदानीम् आधिक्येन संस्कृतं पठितुम् इच्छन्ति । एतस्य अवसरस्य उपयोगः आधिक्येन चिन्तनीयः अस्माभिः । समग्रे देशे देशात् अन्यत्र च एषः संस्कृतपठनोत्साहः उद्बुद्ध दृश्यते विशेषतः । सर्व वयस्तरीयाः अपि आसक्तिं दर्शयन्तः सन्ति । एतान् अध्यापयितुं योग्या व्यवस्था यदि संस्कृतजगता उपकल्प्येत तर्हि महान् जनसमुदायः संस्कृतनिकटम् आगच्छेत् । संस्कृत समर्थकानां सङ्ख्यायां महती वृद्धिः स्यात् । एतस्य प्रत्यक्षः परोक्षः च परिणामः भवेत् महान् । अतः संस्कृतसम्बद्धाभिः सर्वाभिः संस्थाभिः व्यक्तिभिः च विभिन्नानां पाठनव्यवस्थानां परिकल्पनाय मार्गाः चिन्तनीयाः । धनसम्पादनाय अस्य अवसरस्य उपयोगम् अकृत्वा संस्कृतज्ञाः एतादृशे मार्गपरिकल्पनोद्यमे यदि उद्यताः भवेयुः तर्हि अनूह्यः लाभः भविष्यति इत्यत्र नास्ति संशीतिः । विद्यालयानारम्भरूपिणी समस्या अन्यक्षेत्राणि इव संस्कृतक्षेत्रमपि बाधते इत्यत्र नास्ति संशयः । तां निवारयितुं मार्गाः अपि चिन्तनीयाः एव । किन्तु तामेव समस्यां प्राधान्येन चिन्तयन्तः वयम् उपस्थितस्य अन्यस्य सुवर्णावसरस्य उपयोगस्य विषये अवधानं यदि न दद्याम तर्हि महती हानिः भवेत् अस्माकम् एव ।

                       

                                                                                                                                     सम्राट गौतम 

भवतः का प्रतिक्रिया ?

like
3
dislike
0
love
0
funny
0
angry
0
sad
0
wow
0
विज्ञापनक्षेत्रम्
विज्ञापनक्षेत्रम्