संस्कृत भाषी समीक्षा : अभिज्ञानशाकुन्तलनाटक–शाकुन्तलमहाकाव्ययोराख्यानस्य वैशिष्ट्यम्

मीठो लाग्छ मलाई ता प्रियकथा प्राचीन संसारको।   हाम्रो भारतवर्षको उदयको हैमप्रभा सारको।  जाडामा पनि कोयली कुसुमका बास्नाहरू सम्झिंदै   फर्केलान् दिन फेरि उत्तर भनी बस्छे अकेली रुँदै।।

संस्कृत भाषी समीक्षा : अभिज्ञानशाकुन्तलनाटक–शाकुन्तलमहाकाव्ययोराख्यानस्य वैशिष्ट्यम्

सहप्रा. सागरमणि सुवेदी

पिण्डेश्वरविद्यापीठम्, धरानः

कालिदासकृतामिज्ञानशाकुन्तलनाटकदेवकोटाकृत–नेपाली–शाकुन्तलमहाकाव्ये विद्या–विभाजनदृष्ट्या भिन्ने स्तः। आख्यानसंयोजन–घटनाचित्रण– पात्रप्रयोगे च द्वययोग्र्रन्थरत्नयोर्मध्ये स्थाने स्थाने साम्य–वैषम्ये दृश्येते। मूलाख्यानाध्ययनं विना नाटकमहाकाव्याध्ययनेऽपि वैषम्यं दृश्यते। नाटक–महाकाव्ययोः परिवेशविधाने महत्त्वपूर्णं परिवर्तनमस्ति। महाकवेर्देवकोटामहाभागस्यमहाकाव्यं परिवेशविधानदृष्ट्या भागत्रये विभज्याध्येतुं शक्यते। प्रथमो भागः कण्वाश्रमं यत्र दृष्यन्तशकुन्तलयो प्रथम–सम्मेलनं भवित। तयोर्मध्ये प्रेमाकर्षणं, गान्धर्वविवाहश्च तत्रैव तपोवने कण्वाश्रमे जातो दृश्यते। द्वितीयं राज्ञो दुष्यन्त राजप्रासादगतनागरस्थानं प्रमुखं दृश्यते। तृतीयं हेमकूटपर्वतास्थितं कश्यपाश्रमं वर्तते। तत्र स्थानत्रयेषु महाकाव्ये महत्त्वपूर्णकार्याणि विकसितानि दृश्यन्ते। महाकाव्ये कार्यव्यापारघटितस्थानाध्य यनादपि देवकोटा प्रकृतिप्रियः प्राचीनताप्रियश्चास्तीति दृश्यते। स्थानत्रयंमध्ये द्वयं प्राकृतिकं वर्तते। उक्त विषये महाकवे उक्तिर्यथा –

            “मीठो लाग्छ मलाई ता प्रियकथा प्राचीन संसारको।

            हाम्रो भारतवर्षको उदयको हैमप्रभा सारको।

            जाडामा पनि कोयली कुसुमका बास्नाहरू सम्झिंदै

            फर्केलान् दिन फेरि उत्तर भनी बस्छे अकेली रुँदै।।”

(देवकोटा, शाकुन्तलः १,३)

            देवकोटा स्वाभाविकतया प्राचीन–गौरव आर्षसभ्यतां प्रति आकर्षितो दृश्यते। स प्राचीन संस्कृति प्रतिचाकर्षितो दृश्यते।

            महाकविना कालिदासेन नाटकीकृतंमूलमाख्यानमपि मौलिकतापूर्णरूपेण महाकाव्यीकरणे देवकोटा सिद्धहस्तो दृश्यते।

            शाकुन्तलमहाकाव्यस्य कृषक–प्रसङ्कः, तत्कृतातिथ्यसत्कारादयो हृद्याः सन्ति। अनेन प्रसङ्केनास्माकं सामाजिक–सांस्कृतिक–धार्मिकी स्थितिज्र्ञायते। महाकाव्येऽऽख्यानमेव नास्ति परिवर्तितं, पात्रं, पात्रसम्बन्धश्च परिवर्तितो दृश्यते –यथा अभिज्ञानशाकुन्तलनाटके गौतमी ऋषेः कण्वस्य धर्मभगिनीरूपे चित्रिता अस्ति। महाकाव्ये गौतमी कण्यस्य पत्नीति कथिता  विद्यते। आश्रमसभ्यता– तपोनियमे च पुनर्जागरणस्य बीजारोपणभूतेनानेन सम्बन्धेन गार्हस्थ्य–जीवनं प्रत्याकर्षणं दर्शयति महाकवेः।

            महाकवेः कालिदासस्याभिज्ञानशाकुन्तले शकुन्तलाप्रियम्वदा–अनशूयादीनां नारीपात्राणां प्रयोगो दृश्यते। परं महाकाव्ये चारु, श्यामा, नारीपात्रे कृषकस्य च प्रयोगो वर्तते। नाटके एषां पात्राणां समावेश एव नास्ति, अपितु तेषां भूमिका च नूतना दृश्यते।

            महाकविना कालिदासेनाभिज्ञानशाकुन्तल–नाटके प्राचीनाख्यानस्य नाटकीकरणस्य कृते नवीकरणं विहितं दृश्यते। महाकाव्ये नवीकृतस्यापि वस्तुनः पुनर्नवीकरणं कृतदृश्यते। नाटके शकुन्तला पतिगृहगमनं समये ऋषिः कण्वः तस्यैेऽऽशीर्वचनं प्रददाति। महाकाव्ये कण्वगौतमी (पतिपत्न्यौ) तथा कुरुत। महाकाव्ये देवकोटा महाभागस्योक्तिरियं –

            “अर्ती बुद्धि छ चाहिने यदि भने भेटून् यहाँ गौतमी। ”(शा.१,२९)।

            प्रस्तुतमहाकाव्ये स्वपालित–पुत्रीं गौतमी व्यावहारिकं ज्ञानं शिक्षाञ्चाशीर्वादरूपेण ददाति।

            महाकविः कालिदासः स्वनाटकेऽभिज्ञानशाकुन्तले प्राच्य–प्राचीनसभ्यता–संस्कृतमर्यादानां निधिंं प्रकटयति। तस्य कालिदासस्य विक्रमोर्ववशीय–मालविकाग्निमित्र– अभिज्ञानशाकुन्तलाख्येषु नाटकेष्वभिज्ञानशाकुन्तलमनन्यतमं विश्वप्रसिद्धं चेति।

            देवकोटाकृतमहाव्येष्वापिशाकुन्तलमहाकाव्यमुत्कृष्टमस्ति। तन्महाकाव्येष्वेव न अपितु नैपालकमहाकाव्येषु तस्य प्रथमं स्थानमस्ति। (अवस्थीः १०२) व्यासऋषिप्रणीतस्य महाभारतस्यादिपर्वगतं शकुन्तलोपाख्यानमेवाभिज्ञानशाकुन्तल– नाटकस्य बीजं वस्तु इति। विदुषां समालोचकानां, इतिहासकाराणाञ्च मतं दृश्यते। महाभारतस्थस्य शकुन्तलोपाख्यानस्य सान्दर्भिकाः कतिपयश्लोका यथा–

            शकुन्तलाजन्मविषये – स्वयमेव कथयति –

            “एवमुक्ता तु सा कन्या तेन राज्ञा तमाश्रमे

            उवाच हसती वाक्यमिदं सुमधुराक्षरम्।

            कण्वस्याहं भगवतो दुष्यन्त दुहिता मता

            तपस्विनो धृतिमतो धर्मज्ञस्य महात्मनः।।”

(महाभारतं आदिपर्वः, ७१ अध्यायः)

            ऋषिः कण्वः कथं पिता भवति ? इति शङ्गायां तत्र महाभारते

            “शरीरकृतप्राणदाता यस्य चान्नानि भुञ्जते।

            क्रमेणैते त्रयोऽप्युक्ताः पितरो धर्मशासने।

(महाभारतं आदिपर्वः, ७२ अध्यायः)

            विवाहं कर्तुं यदा दुष्यन्तस्तां शकुन्तलां कथयति तदा शकुन्तला तं प्रत्युत्तरंं ददाति यथा –

            “यदि धर्मपथस्त्वेष यदिचात्मा प्रभुर्मम।

            प्रदाने पौरवश्रेष्ठ श्रृणु मे समयं प्रभो।।

            सत्यं मे प्रतिजानीहि यथा वक्ष्याभ्यहं रहः।

            मयि जायेत यः पुत्रः स भव्त् त्वदनन्तर :।

            युवराजोमहाराज सत्यमेतद् ब्रमीमि ते।

            यद्येतदेवं दृष्यन्त अस्तु मे सङ्कमस्त्वया।।”

(महाभारतं आदिपर्वः, ७३ अध्यायः)

वैशंपायन उवाच

            “प्रतिज्ञाय तु दुष्यन्ते प्रतियाते शकुन्तलाम्।

            गर्भं सुषाव वामोरुः कुमारममितौजसम्।।”

(महाभारतं आदिपर्वः, ७४ अध्यायः)

            उक्तोद्धरणादपि ज्ञायते यद् नाटके, महाकाव्ये च दुष्यन्तशकुन्तलयोः यः संवादो दृश्यते महाभारते तथा न। व्यवहार–मर्यादादृष्ट्याऽपि नाटक–महाकाव्ययो–राख्यानं परिवर्तनं कृतमस्तीति ज्ञातुं शक्यते।

            महाभारतानुसारं शकुन्तलापुत्रस्य जन्म आश्रम एव भवति, तस्य नाम च सर्वदमनो वर्तते, तत्प्रमाणं यथा–

            “ततोऽस्य नामचक्रुस्ते कण्वाश्रमनिवासिनः।

            अस्त्वयं सर्वदमनः सर्वं हि दमयन्त्यसौ।।”

(महाभारतं आदिपर्व, ७४ अध्यायः)

शकुन्तलाया नामकरणविषये–

            “निर्जने तु वने यस्माच्छकुन्तैः परिवारिता

            शकुन्तलेति नामास्याः कृतं चापि ततो मया।”

(महाभारतं आदिपर्व, ७२ अध्यायः)

            महाभारत–रामायण–पद्मपुराणेष्वपि शकुन्तलोपाख्यानं विद्यते, परं शाकुन्तलमहाकाव्यस्याख्यानमभिज्ञानशाकुन्तलनाटकाद् गृहीतमित्यपि कथनमस्ति। (न्यौपानेः ८४)।

            विश्वप्रसिद्धिमभिज्ञानशाकुन्तलस्य नाटकस्याख्यानमेव शाकुन्तलमहाकाव्यस्याप्यस्ति कथनं समुचितमपि दृश्यते। किञ्च नाटकीकृतमाख्यानमेव शाकुन्तलमहाकाव्यस्याप्यस्ति कथनं समुचितमपि दृश्यते। किञ्च नाटकीकृतमाख्यानमेव देवकोटा महभागेन स्वीकृत मत एव महाकाव्येऽपि विदूषकस्य प्रयोगोदृश्यते। नाटकस्याख्यानस्य महाकाव्यीकरणमेवात्र नास्ति, अपितु नेपालीकरणमप्यस्ति।

(शाकुन्तलमहाकाव्यं, २०–२२ सर्गौ) शकुन्तलोपाख्यानं तु श्रीमद्भागवतेऽप्यस्ति। तद्दिग्दर्शनं यथा–

            “दुष्यन्तो मृगयां यातः कण्वाश्रमपदं गतः।

            तत्रासीनं स्वप्रभया मण्डयन्तीं रमामिव।

            विलोक्य सद्योमुमुहे देवमायामिव स्त्रियम्।

बभाषे तां वराहोहां भटैः कतिपयैर्वृतः।।

शकुन्तलोवाच

            विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने।

वेदैतद् भगवान् कण्वो वीर किं करवाम ते।

(श्रीमद्भागवतं, नवमस्कन्धः विंशोऽध्यायः)

अभिज्ञानशाकुन्तलनाटक– नेपालीशाकुन्तलमहाकाव्ययोः दुष्यन्तशकुन्तलयोः प्रेमभावपूर्णं जीवनचरितमेवमूलमाख्यानं भूतं दृश्यते। देवकोटारचिते शाकुन्तलमहाकाव्ये वितरितमाख्यानं चतुर्विशतिसर्गपर्यन्तं विस्तृतं विद्यते। चतुर्विंशतिसर्गात्मके तस्मिन् महाकाव्ये संयोजितमाख्यानं प्रतिसर्गं विभज्याऽध्येतुं शक्यते। अस्मिन् महाकाव्ये कवित्वस्य बाहुल्यं आख्यानस्य न्यूनत्वं वर्तते इति    (न्यौपाने २०६८:८४) कथयति। महाकाव्याध्ययनात्कथनमेतत् सत्यं प्रतिभाति। अत्र महाकाव्ये प्रयुक्तस्याख्यानस्य वितरणं एतादृग्वर्तते –

१. शाकुन्तलमहाकाव्ये प्रथमसर्गस्याख्यानम्

            वस्तुनिर्देशकान्मङ्कलाचरणात् प्रारम्भितः प्रथमसर्गः महाकाव्यस्य भूमिकामयोऽस्ति। महाकाव्यलेखनोद्देश्यम्, कथावस्तुनः स्रोतः प्रस्तुतपुरःसरं महाकविना पौरस्त्यसभ्यता–संस्कृतिपरम्पराप्रियता एव महाकाव्यलेखनस्य प्रमुखमुद्देश्यमिति उल्लिखितमस्ति। प्राचीन सम्पदां विना वर्तमाने समये जीवितुमपि काठिन्यमनुभूयते इत्यपि महाकवेर्देवकोटामहाभारतस्य कथनं दृश्यते।

२. द्वितीयसर्गस्य सङ्क्षिप्तमाख्यानम्

            विविधवृक्षवनस्पतियुतं गोदावरीतटवर्णनं, सुन्दरप्राकृतिक–दृश्यसमन्विते स्थान विश्वामित्रस्याश्रमवर्णनं, तस्य ऋषेः जटिलतपोवर्णनं, ऋषेस्तपोभयात्    भयभीतस्वर्गस्य नृपस्य इन्द्रस्य मनोभाववर्णनं तपोभङ्कोपायविचारणं,        सुन्दरीयुवतीकारणादेव तपोभङ्ककर्तुं शक्यते इति इन्द्रस्य विचारवर्णनञ्चास्य सर्गस्याख्यानम्।

३. तृतीयसर्गस्याख्यानम्

            इन्द्रद्वारा प्रेषिता स्वर्गस्य परी मेनकाऽऽगमनसमये स्वर्गाद् गोदावरीतटं यावत् मार्गस्य प्राकृतिकं सौन्दर्यं,स्वर्णमयसोपानवर्णनं, मेनकाया वस्त्राभूषणादीनामपूर्णं वर्णनमेवास्य सर्गस्याख्यानं दृश्यते।

४. चतुर्थसर्गस्याख्यानम्

            तपसि निमग्नस्य ऋषेर्विश्वामित्रस्य तपोभङ्ककामा मेनकाकायास्तपोनिधि–समीपागमनं, सुन्दरनृत्यादिकं प्रदर्शनं,विश्वामित्रमेनकयोः परिचयः, मेनकां प्रति विश्वामित्रस्याकर्षणं, मेनकाया अरुचिः, मेनकाप्राप्तिरेव स्वर्गादिसुखमैश्वर्यप्राप्ति–र्भवतीति विश्वमित्रस्य वचनदानात् मेनकायाः प्रेमप्रदर्शनं, पारस्परिकं समर्पणञ्चेति प्रमुखमाख्यानं दृश्यतेऽस्मिन् सर्गे।

५. पञ्चमसर्गस्याख्यानम्

            वनेऽऽश्रमं निर्माय सानन्दं निवसतो मेनकाविश्वामित्रावत्रचित्रितौ स्तः। परस्परं स्नेहभरं जीवनं यापयन्त्ययोरनयोरकस्मात् पुत्रीरत्नलाभोभवति। मेनकासमीपं सद्यो जातबालिकां संस्थाप्य मनसि नैकविधान् विचारान् विमर्शन् सन् विश्वामित्रः पुनस्तपकार्ये संलग्नः। मेनका च तां बालिकां सरः समीपे संस्थाप्य अन्यत्र     गतवती। निश्छलस्वरूपे प्राकृतिकक्रोडे सा शनै–र्वृद्धिङ्कताऽस्य सर्गस्याख्यान–मूलम्।

६. षष्ठमसर्गस्याख्यानम्

            वने परित्यक्तां, पशुपक्षीप्रकृतिपरिपालितां स्वकन्यकां माता मेनका स्वर्गात् पश्यति। स्नानं विधाय प्रत्यावर्तनसमये ऋषिः कण्व अकस्मात् नवजातकन्यकामेकां पश्यति। तां बालिकामानीय स्वाश्रमे स स्थापयति। तौ दम्पत्ती कण्वगौतमी तां स्वसन्ततिवत् पालनपोषणं कुरुत। तस्या बालक्रीडाबालस्वभावसौन्दर्यञ्चावलोक्य तौ प्रसन्नौ च जातावित्यस्य सर्गस्याख्यानम्।

७. सप्तमसर्गस्याख्यानम्

            वयोविकासेन सह विकसितायाः शकुन्तलाया बालक्रीडायाः स्वरूपं विलोक्य, तस्याः सखीनां अनशूया –प्रियम्बदा–चारु–प्रभृतीनां बाललीलां, मृगशावकानां चाञ्चल्यं मृगनयनीनाञ्च हर्षवृद्धिवर्णनमस्य सर्गस्य मुख्यमाख्यानम् विद्यते।

८. अष्टमसर्गस्याख्यानम्

            मालिनीनदीतटे शकुन्तलाप्रमुखानां तत्सखीनाञ्च वार्तालापवर्णनं, राज्ञो दुष्यन्तस्य बलशौर्यसौन्दर्यवर्णनं, पराक्रमी राजा दुष्यन्तस्त्वां शकुन्तलां वरयते,      राज्ञीपदवीञ्च प्रदास्यति इति सखीमुखात् श्रुत्वा शकुन्तलाद्वारा सखीनां वार्ता–     तिरस्कारः,विवाहकरणेऽनिच्छाप्रकटनेऽपि अन्तर्मनसि श्रुतं दुष्यन्तं प्रत्याकर्षणभावविकसनमस्य सर्गस्य मूलमाख्यानं वर्तते।

 ९. नवमसर्गस्याख्यानवर्णनम्

            बाल्यकिशोरवयः सन्धिमतिक्रम्य किशोरावस्थायां प्रविष्टायाः शकुन्तलायाः रूप–यौवन–सौन्दर्य–जिज्ञासावर्णनं,प्राकृतिकगुणचरितैः साकं शकुन्तलायास्तुलना, कामभावानुरक्ता सा कामदेवस्य रतितुल्या इत्यादि वर्णनमस्यसर्गस्य प्रमुखमाख्यानमस्ति।

१०. दशमसर्गस्याख्यानम्

            शौर्यबलसम्पन्नस्य राज्ञो दुष्यन्तस्य तेजोबलवर्णनं, प्रजान् तोषयित्वा       राजशासनकरः, लोकदुःखकष्टहरो राजा दुष्यन्त स्वर्गसुखशासनसमानं शासनं     करोति, रथारूढो स राजा दुष्यन्तो वनविहाराय प्रस्थितः, इतिप्रमुखमाख्यानं दृश्यते।

११. एकादशसर्गस्याख्यानम्

            आखेटार्थं बहिरागतस्य राज्ञो दुष्यन्तस्य हयानां वेगवर्णनं, प्राकृतिक–वानस्पतिक–पशुपक्षिणाञ्च वर्णनं, दुष्यन्तद्वारा चञ्चलमृगभारणेविहितप्रयत्नवर्णनं, मृगस्य चाञ्चल्यं तस्य भयवर्णनं, साधुभ्यां मृगसंरक्षणं, अत्र वने कण्वाश्रमे मृगा अपि बालवत–पालिता इति दुष्यन्तं प्रति साधूपदेशः वस्त्रपरिवर्तनपूर्वकं दुष्यन्त–द्वारा मृगस्थलीदर्शनं विदूषकस्य हास्यादिकमित्यस्य सर्गस्य कथावस्तु दृश्यते।

१२. द्वादशसर्गस्याख्यानयोजना

            दुष्यन्तशकुन्तलाभ्यां प्रक्षिप्य शकुन्तलाया दर्शनं, युवतीभिः पुष्पवाटिकायां जलसिञ्चनं, तत्र भ्रमरागमनं, भ्रमरपीडितायाः शकुन्तलायाः सखीभिस्तन्निवारणार्थं दुष्यन्तस्याराधना, तत्कालमेव दुष्यन्तस्योपस्थितिः समकालमेव राज्ञः सेनाया उपस्थिति राजा सैन्यं प्रति, युवराजश्चाश्रमं प्रति गमनमस्य सर्गस्याख्यानम्।

१३. त्रयोदशसर्गस्याख्यानम्

            वनविहारे निमग्नस्य राज्ञो दुष्यन्तस्य कृते अलौकिकानन्दानुभूतिः, पौनपुन्येन वनभ्रमणं कर्तुं राज्ञो मनोरथवर्णनं, राज्ञः सेनासमूहं प्रत्यावत्र्य दुष्यन्तविदूषकाभ्यां वनविहारवर्णनं, शकुन्तलां प्रत्याकर्षितस्य राज्ञो मनोभावं ज्ञात्वा नागरिकानि पुष्पाणि सुमनोहराणि भवन्ति, वनपुष्पाणिं प्रत्याकर्षणं नैव विधेयमिति विदूषकस्य कथनं श्रुत्वा अपि राज्ञा दुष्यन्तेन शकुन्तलायाः सौन्दर्यवर्णनमाद्यस्याख्यानं दृश्यते।

१४. चतुर्दशसर्गस्याख्यानम्

            शकुन्तलायाः दुष्यन्तं प्रति आकर्षणभाववर्णनं, चन्द्रिकायां तया दुष्यन्तदर्शनानुभूतं कर्तव्यं, स्वप्ने कृष्णदर्शनं, शकुन्तलाया एकाग्रतावर्णनं, दुष्यन्तशकुन्तलयोः प्रेमकारणादेव मालिनीतटेऽस्येयं दशा इति कथनतत्परायाः प्रियम्वदायाः गौतमी आगमनकारणात् मुखावरोधो भवतीति अस्यसर्गस्याख्यानम्।

१५. पञ्चदशसर्गस्याख्यानम्

            वसन्तवने विरहाकुलो राजा दुष्यन्त पुनरपि शकुन्तलां द्रष्टुमिच्छति। दर्शनोपायान्वेषणे विचारमग्नं राजानं दृष्ट्वा विदूषक हास्यवाक्यं वदति। शकुन्तलायाश्च विरहकातरावस्थायावर्णनमत्र दृश्यते। प्रक्षिप्तोभूय शकुन्तलां पश्यत राजा। शकुन्तला स्वेच्छां प्रकटयति। स्वमनोभावं प्रकटय इत्युक्त्वा शकुन्तलामेकाकी विधाय तन्मित्राणि गच्छन्ति, शकुन्तला किमपि वक्तुं नशक्नोति दुष्यन्तं प्रति। दुष्यन्तमुखमवलोक्य शकुन्तला बहिर्गच्छतीति सर्गस्यास्याख्यानमस्ति।

१६. षोडशसर्गस्याख्यानम्

            वसन्तमण्डपे वसन्तस्यैव पौरोहित्ये पक्षीगीतिवाद्यमये सुरमणीये वातावरणे वने दुष्यन्तशकुन्तलयोर्गान्धर्वविधिना विवाहकार्य सम्पद्यते। तत्रैव वसन्तविहितहोलिकोत्सवचर्चा च चलति। तस्मिन्नवसरे शैलशिखरान् मेनकादुष्यन्तस्य स्कन्धस्थां शकुन्तलां पश्यन्ति केवलं, मेघाच्छन्नकारणात् द्रष्टुमक्षमा मेनका चिन्ता–तुरा जातेत्यस्याख्यानं विद्यते।

१७. सप्तदशसर्गस्याख्यानम्

            जीवने सुखानुभूतिश्चिरस्थायी न भवति, इति सङ्गेतं कुर्वन् दुष्यन्त–शकुन्लयोर्जीवनेऽपि सुखस्य कालस्वल्प एवेति कथनं,प्रतिवेशीराष्ट्रात् स्वराज्यं प्रत्याक्रमणं भविष्यतीति वचनं श्रुत्वा राजा दुष्यन्त राज्यसंरक्षणं स्वकर्तव्यमिति विचार्य स्वनामाङ्गितां मुद्रिकां शकुन्तलायै प्रदाय राजप्रासादं प्रति प्रस्थानवर्णनं, मुद्रिकायामङ्गितानि अक्षराणि परिगणय अन्तिमे वर्णगते दिवसेऽवश्यमागमिष्यमि इति तत्सङ्गल्पकथनवर्णनं,

            राजानं संस्मृत्य किङ्गर्तव्यविमूढावस्थायां स्थितासु शकुन्तलासु आश्रमपदे ऋषे दुर्वाससः आगमनं, श्रापप्रदानं शकुन्तलासखीअनुरोधात् विस्मृतिविमोचनोपायदिग्दर्शनं सोमतीर्थगतस्य कण्वस्य प्रत्यावर्तनं, दुष्यन्तशकुन्तलयो गान्धर्वविधिना सम्पन्न विवाहसमाचारश्रवणं, शकुन्तलायैऽऽशीर्वादप्रदानमस्य सर्गस्याख्यानं विद्यते।

१८. अष्टादशसर्गस्याख्यानम्

            विजितशत्रुरपि दुष्यन्तो नागत इति ऋषेः कण्वस्य चिन्तावर्णनं, कण्वद्वारा शकुन्तलागृहप्रेषणकार्यार्थं विचारणं,गौतमीद्वारा शकुन्तलायै व्यावहारिकोपदेशप्रदानं, दुष्यन्त–राजप्रादयोर्विषये चिन्तिता शकुन्तला दुष्यन्तस्यस्नेहप्राप्तिर्भवतीति वस्तुवर्णनमस्यसर्गस्याख्यानम्।

१९. एकोनविंशतिसर्गस्याख्यानम्

            शकुन्तलायाः गृहप्रस्थानस्य कृते विहितकार्यस्यवर्णनं, शकुन्तलायाः स्नानादिकार्यवर्णनं, शकुन्तलया विविधवस्त्राभूषणानि धारणवर्णनं, वृक्षं प्रति शकुन्तलाया अनुरागचित्रणं, मृगशावकप्रसङ्कः, ऋषिकुमाराभ्यां गौतम्या च साकं शकुन्तलाया गृहप्रस्थानपूर्वकार्यवर्णनमसयसर्गस्याख्यानं दृश्यते।

२०. विंशतितमसर्गस्याख्यानम्

            शकुन्तलागृहप्रस्थानदृश्यवर्णनं मार्गे लतावृक्षादीनां सौन्दर्यवर्णनं, शकुन्तलायाश्चिन्ता, गौतमीद्वारा शकुन्तलायाः मनोविज्ञानज्ञानपूर्वकमाश्चासवचनप्रदानं, राजधानीदर्शनं, समयाभावात् कृषकस्यगृहे निवसनं, तस्यातिथ्यं स्वीकारः, आगामिनी दिने स्नानादिपूर्वकं राजप्रासादं प्रति प्रस्थानादिकमाख्यामत्र वितरितं दृश्यते।

२१. एकविंशतिसर्गस्याख्यानम्

            राजधानीराजप्रासादयोः सौन्दर्यवर्णनं, उद्यानस्य सौन्दर्यवर्णनमुद्यानस्य सौन्दर्यचित्रणम्, दुष्यन्तशकुन्तलयोः संयोगः,शकुन्तलाविषये दुष्यन्तस्यानभिज्ञता, शकुन्तलाद्वारा पूर्वस्मृतिकरणविहितप्रार्थनायाः निरर्थकता, दुष्यन्तविहितशकुन्तलातिरस्कारः,गौतमीशारङ्कवतयोर्विहितं प्रयत्नस्यापि निरर्थकतादर्शनं, परिचयकारणभूतायाः मुद्रायामभावः, गौतमी कण्वशिष्याभ्यां शकुन्तलापरित्यागवर्णनं, अपमानितायाः शकुन्तलायाः प्रत्यावत्र्य तडागसमीपे शकुन्तलापतनं, तत एव मेनकयाः शकुन्तला ग्रहणमस्य सर्गस्य मूलमाख्यानं दृश्यते।

२२. द्वाविंशतिसर्गस्याख्यानम्

            श्यामायाः अजाशावकतडागगमनं, तत्प्रत्यावर्तनाय श्यामायाः आगमनं, तत्र राजनामाङ्गितामुद्रिकाप्राप्तिः, श्यामाद्वारा कृषकाय प्रदानं, कृषकेण दुष्यन्ताय, मुद्रिकाप्राप्त्यनन्तरं शकुन्तलाविषयकं ज्ञानं, इन्द्रादामन्त्रणं, दुष्यन्तस्य स्वर्गगमनवर्णनं,शकुन्तला कश्यपाश्रमे निवसतीति आख्यानमस्मिन् सर्गे वर्तते।

२३. त्रयोविंशतिसर्गस्याख्यानम्

सशस्त्रं राज्ञो दुष्यन्तस्य विमानात् स्वर्गगमनयुद्धवर्णनदेवतानां विजयः, दैत्यानां पराजयवर्णनं, दुष्यन्तस्य प्रशंसागानं, नाटकप्रदर्शनं,दुष्यन्तस्य प्रत्यावर्तनं, प्रत्यावर्तनक्रमे मार्गे हेमकूटपवर्ततदर्शनं, तत्रावतरणं, दुष्यन्तद्वारा शकुन्तलास्मरणमादि कथानकमत्र वर्णितं विस्तारितञ्च दृश्यते।

२४. चतुर्विंशतिसर्गस्याख्यानम्

राजा दुष्यन्तः कश्यपाश्रमं प्रति गच्छति। शकुन्तलायाः विषये प्रष्टुं तत्र गच्छतो दुष्यन्तस्य पुरतो एको बालकः सिंहशिशो दन्तगणनां कुर्वनासीत्। दुष्यन्तः बालकं पृच्छति पित्रोर्विषये। कृष्णनामक आत्मा पिता, कश्यपाश्रमं निवासस्थानं कथयति बालकः। आश्रमवासिभिर्जनैर्बाल–कश्चन्द्रवंशोत्पन्नः इति राजा सूचितः। बालकस्यानुपूरदर्शनादाश्चर्यचकितस्य, वार्तालापस्य, घटनायाश्च समाचारः पुष्पावचयनरता शकुन्तला शृणोति। दुष्यन्तशकुन्तलयोः सम्मेलनं जायते। अश्रुपूरि–तयोस्तयोः पूर्वस्मरणं वर्णनं,कश्यपाश्रमगमनं, कश्यपस्याशीर्वादप्रदानं, सपरिवारो दुष्यन्तः स्वनगरं प्रति प्रस्थानात् पूर्वं आकाशवाणी प्रसङ्कश्चात्र आयाति। राजप्रासादं प्रति प्रस्थितौं तौ आध्यात्मचिन्तनं प्रति संलग्नौ दृश्येते। महाकवेविनम्रनिवेदनपूर्वकमस्य महाकाव्यस्याख्यानं समाप्यते।

महाभारते कण्वपुत्री, भागवते विश्वामित्रपुत्री च शकुन्तला स्वयमेव दुष्यन्तं कथयति, परं नाटके तु सखीमुखात्। अनेनाऽध्ययनेन संवादेऽचौतित्यानौचित्यस्यापि विचारकरणीय एवेति वक्तुं शक्यते। तस्य कृते सूक्ष्माध्ययनमावश्यकमस्ति।

सामान्यसाम्यवैषम्यनिरूपणेऽभिज्ञानशाकुन्तलनाटकस्य प्रत्यङ्गमाख्यानं, शाकुन्तलमहाकाव्यस्य च प्रतिसर्गस्याख्यानदिग्दर्शनमावश्यकं तद्यथा अभिज्ञान– शाकुन्तलनाटकस्य भूमिकायां –

प्रथमेऽङ्गे कथासारांश

            अथ नाटकस्यादौ पूर्वरङ्काङ्कभूतामाशीरूपां या सृष्टि स्रष्टुराद्या इत्यात्मिकामष्ट–पदीनान्दीं विघ्नव्युह निरासाय पठति सूत्रधारः। ततः सूत्रधारोनटीं ब्रूते आर्ये, कालिदास ग्रथितवस्तुनोऽभिनयेनाभिज्ञानशाकुन्तलनामकेन नाटकेनोपस्थातव्यमिति तदनु चिरप्रवृत्तमुपभोगाक्षमं ग्रीष्मकालमधिकृत्य नटी  नायाति। मनोहारिणा तेन गीतेन मृगेण राजा दुष्यन्त इवाहमपि हठात् मनोहारिणा गीतेन हृतोऽस्मीति प्रस्तौति प्रस्तावनायां सूत्रधारः

                        तवास्मि गीतरागेण हारिणा प्रसभं हृतः

                        एष राजेव दुष्यन्त सारङ्केणातिरंहसा।।५।।

            तदनन्तरं मृगबधाय यावदसौ राजा धनुषि शरं सन्धते तावदेव द्वौ वैखानसौ आश्रममृगोऽयं न हन्तव्यो न हन्त्यव्य इति निषेधमन्तौ दुष्यन्तं निवारयतः।

            सोऽपि तदादेशानुसारं सद्यः सायकं प्रतिसङ्कृहीतवान्। ततः ताभ्यां स्वात्मानुगुणं चक्रवर्तिनं तनयं प्राप्नुहीति शुभाशिषं प्रदाय कण्वाश्रमे प्रवेशायानुरोधं कृत्वा समिदा–हरणाय प्रस्थितौ। ततो राजा तपोवनोपरोधो मा भूदिति स्थादिकबहिः संस्थाप्य दक्षिणबाहुस्पन्दनपूर्वकं विनीतवेषेणाश्रमं प्रविश्य तत्र सखीभ्यां समेतामाम्रान् सिञ्चन्तीं शकुन्तलामालोक्य आत्मगतं चिन्तयति –

            इदं किल व्याज मनोहरं वपुस्तपः क्षमं साधयितुं य इच्छति।

            ध्रुवं स नीलोत्पल पत्रधारया शमील्लतां छेत्तुमृषिव्र्यवस्यति।।१८।।

            सरसिजमनुविद्धं शैवलेनापि रम्यं

            मलिनमपि हिमांशोर्लक्ष्मलक्ष्मीं तनोति।

            इयमधिकमनोज्ञा वल्कलोनापि तन्वी

            किमिव मधुराणां मण्डनं नाकृतीनाम्।।

            अत्रान्तरे भ्रमरपीडिता शकुन्तलात्मानं परित्रातुं सख्यौ प्रार्थितवती। ततस्तयोः स परिहासं भणति – के आवां परित्रातुं। राजरक्षितव्यानि तपोवनानि। अतो दुष्यन्तं आक्रन्द स एवागत्य त्वां परित्रास्यति। अवसरं ज्ञावा दुष्यन्तस्य स्वात्मप्रकाशनम्,ससम्भ्रमां शकुन्तलां वीक्ष्यानुसूयाप्रियंवदयोः राज्ञ आतिथ्यसामग्रीसञ्चयार्थं शकुन्तलायै आदेशदानम्। ततो राजा भवतीनां सुनृतया गिरा एव कृतमातिथ्यम्। ततः सखीसकाशात् तन्नाम जन्माद्यवगम्य तदीय रूपलावण्याकृष्टो राजा ब्रवीति –

मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः।

न प्रभातरलं ज्योति रुदेति वसुधातलात्।२५।

इदं श्रुत्वा शकुन्तलाऽधोमुखी तिष्ठति।

            ततोनेपथ्ये – भो भोः तपस्विनः मृगयाविहारी राजा दुष्यन्त प्रत्यासन्नोवरीवर्ति। अतः तपोवन सत्वरक्षायै सज्जीभवन्तु भवन्त इति श्रवणम्। किमस्मदन्वेषिणः पौराः तपोवनमुपरुन्धन्ति। अतः आश्रमपीडा यथा नभवेत् तथा प्रयतिष्यामहे। दुष्यन्तरथदर्शनसम्भ्रान्तस्य कस्यचिद्वन्यगजस्य तपोवनप्रवेशं श्रुत्वा सम्भ्रान्ता मुनिकुमार्यः उत्तस्थुः कथयामासुतश्च आर्यं वन्यगजवृत्तान्तेनानेन पर्याकुलाः स्मः। अतोऽनुजानीहि उटजगमनाय। असम्भावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जामहे आर्यै विज्ञापयितुम्। राजापि मामैवं दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि। शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य निर्गता। राजापिनगरगमनं प्रति मन्दौत्सुक्यः सन् यथा आश्रमबाधा न भवेत्त्तथा यतिष्ये इत्युक्तनिष्क्रान्तः।

द्वितीयेऽङ्गे कथासारांशः

            अयं मृगः, एषः वाराहः, असौ शार्दूल इति मध्याह्नेऽपि ग्रीष्मविर– लपादपच्छायासु वनराजिषु अटवीतोऽटवी भ्रममाणस्य मृगयाशीलस्यास्य राज्ञो दुष्यन्तस्य स्नेहपरवशेन माधव्यनाम्ना विदूषकेन दुःखानुभवो वर्णितः। ततो मृगवाराहादीननुसरता कण्वाश्रमप्रतिष्ठेन नृपेण दुष्यन्तेन तपस्विदुहिता शकुन्तलावलोकिता तल्लावण्यलुब्ध तामेवानिशं चिन्तयन् कथमपि निशामति वाहितवान्। ततो राजा सेनापतिमाहूय प्रोवाच सेनापते। वनग्राहिणो निवर्तस्य यथा तपोवनोपरोधो न भवेत्तथा सैनिकाः निरोधव्याः यतो हि –

            शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेज।

            स्पर्शानुकूला इव चन्द्रकान्तास्तदन्यतेजोऽभिभवाद्वमन्ति।।७।।

            ततो रहसि स्वसुहृदे माधव्याय कण्वसुताशकुन्तलादर्शनेन जातमात्मनोऽवस्थां न्यवेदयेत् दुष्यन्तः। अपि च शकुन्तलाया देवाङ्कनासम्भवत्वम्, आत्मनस्तया सह सम्बनधयोग्यताम् तस्या सखीभ्यां सह संवेदावसरे विविधभाव प्रकाशनानन्दकं सर्वमवर्णयत्।

            अत्रावसरे मुनिकुमारावागत्योचतुः – राजन्, तपस्विभिज्र्ञातमस्ति यद्भवानत्रैव तिष्ठति। अतस्ते भवन्तं प्रार्थयन्ते यदस्माभिः क्रियमाणे यज्ञे राक्षसा बाधां कुर्वन्ति ततः तन्निवारणाय भवता कतिपय दिवसमात्रं सनाथीक्रियतामयमाश्रमः। तस्मिन्नेवान्तरे राजधानीतोऽभ्वाया सन्देशहरः करभकः उपस्थापयाम्वासन्देशं दुष्यन्तायन्यवेदयत्–आयुष्मन्, मातृभिः सन्दिष्टो भवान् यत् आगामिनिं चतुर्थदिवसे प्रवृत्तपारणा मे उपवासो भविष्यति तत्र दीर्घायुषाऽवश्यमुपस्थायाहं सम्भावनीया। ततः समकालं तपस्विसहितशकुन्तलानुराग पुत्रकर्तव्याभ्यामाकुलीकृतचित्तः दुष्यन्तो विदुषकमाह–वयस्यःत्वमम्बया पुत्रत्वेन परिगृहीतोऽसीत्यतस्तत्र गत्वा तत्पुत्रकार्यं सम्पादय, अहं तु ऋषीणां गौरवादत्रैव तिष्ठामि। न खलु त्वया शकुन्तलायां ममाभिलाषः तत्रा प्रकटनीयः मया तु तद्वच उपहासेन तुभ्यमवोचि :

वयस्य पश्य

            क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः।

            परिहास विजल्पितं सखे परमार्थेन न गृद्भतां वच :।१८।।

            एवमाभाष्य राजा सकलानुयात्रिकैः सह विदूषकं स्वराजधान्यां

विसृज्य कण्वाश्रमे प्रविष्टः।

तृतीयेऽङ्गे कथासारांश

            अथ कुशहस्तो यजमानः शिष्यः प्रविश्य राज्ञो दुष्यन्तस्य तपोवनप्रवेशात् निरूपप्लवं निखिलं यज्ञकर्मसवृत्तमिति सगौरवं तस्य शौर्यं प्रतापातिशयं च वर्णयति विष्कुम्भके –

            का कथा वाणसन्धाने ज्याशब्दे नैव दूरतः।

            हुङ्गारेणैव धनुषः स हि विघ्नानपोहति।।१।।

            ततो मुनिभिरनुज्ञातो दुष्यन्तः दुरीकरणाय श्रमक्वलममनोविनोदाय च गच्छामि ? अथ शशाङ्गमदनावुद्धिश्च कामव्यथां वर्णयन् सखीपरिवृता शकुन्तला मालिनीनदीतटे इमामुग्रां वेलामतिवाहयति इति तामन्विष्यन् मालिनीतीरमाययौ तत्र लता मण्डप कुसुमास्तरणं शिलापट्टमधिशयानां सखीभ्यां नलिनीदलादिभिरूपचार्य– माणां शकुन्तलामक्षिलक्ष्यी चकार। बलवदस्वस्थशरीरायाः शकुन्तलायाः सखीभ्यां सह विश्राभ्भालापांश्च संश्रोतुकामो नृपः शाखान्तरितो भूत्वाऽतिष्ठत्। ततः सखीभ्यां तदवस्थां ज्ञातुं पृष्टा सा ब्रवीति –

            सख्यौ तपोवनेऽस्मिन् राजर्षेः दुष्यन्तस्यागमनादेवाहमिमां दशां गतास्मि।

            स एव मम शरणमिति निशम्य प्रियंवदा मदनलेखात्मकं प्रयोगं रुचिरं विचार्यं देवताप्रसादोपदेशेन राजानप्रति तत्प्रापणकार्यं स्वयं स्वीकरोति। ततो मदनलेखं विरच्य शकुन्तलया वाच्यमानं निशम्य सन्तुष्टान्तरात्मा दुष्यन्तः तमेवावसरं प्रकटयितुं मत्वा सहसो पसृत्य स्वीयां चानिर्वर्णनीयां दशां ताः प्रख्यापयति। ततः सख्यौआहतुः महाभाग घ् एषा नौ प्रियसखीशकुन्तला भवन्तमेवोद्दिश्य मदनेनेदं दशान्तरं नीता। तदर्हस्यभ्युपपत्या जीवितमस्या अवलम्बितुं। यथा नेय बन्धुजनशोच्या भवति तथा करोतु महाराज इत्युक्वा मृग पोतकं तन्मात्रा सह मेलयितुं व्याजीकृत्य लतामण्डपाद् बहिर्निर्यग्मतुः। अथ सख्योरनुसरणपरा शकुन्तला राज्ञा बलान्निवारिता। ततः किञ्चित्कालं चिर प्रार्थितं वाञ्छा साफल्येन सुखितयोः परमानन्दमनुभवतोः तयोः स्वस्थोपलम्भनार्थं शान्त्युदकहस्ता गौतमी शकुन्तलामाह्वयन्ती तमेव प्रदेशमनुसृत्य। प्रोक्तवती वत्से घ् अनेन दर्भोदकेन ते शरीरं निर्बाधं भविष्यति। ततो जाते घ् परिणतो दिवसः सायङ्गालः सञ्जातः, उटजं गच्छामः इति सर्वाः प्रस्थिताः। अथ दुःखेन तामनुसरन्ती।

            सा लतावलव्याजेन राजानमवोचत्–लतावलय घ् सन्तापहारक आमन्त्रइत्वां पुनः परिभोगाय। एवं सोपदेशं राजानमुक्त्वा निर्ययौतेनातिखिन्नमनाराजा तत्रैव प्रेयसी विहृतस्थलादि स्मारं स्मारं कथंचिदतिवाद्भ प्रियापरिभुक्तभुक्ते लतामण्डपे मुहूर्त स्थित्वा विषण्णः सन् सवनकर्मव्यापृतानामृषीणां निशाचरभयवारणायागात्

             सायन्तने सवनकर्मणि सम्प्रवृत्ते

            वेदीं हुताशनवतीं परितः प्रयस्ताः

            छायाश्चरन्ति बहुधा भयमादधानाः

            सन्ध्या पयोदकपिशाः पिशिताशनानाम्।।२४।।

            सत्यवसरे दुष्यन्तोगान्धर्व विवाहविधिना शकुन्तलामुद्वाद्भ तथा साकं किञ्चित्कालमति बाद्भ ऋषिभिरनुज्ञातः स्वां राजधानीं जिगमिषन् तस्यै स्वनामाङ्गितमङ्कुलीयकं प्रदाय प्रावोचत् प्रिये घ् अत्र प्रत्यहमेकमेकं मदीयं नामाक्षरं गणनीयं यावदन्तं गच्छति तावत् मयान्तः पुरप्रापक कञ्चन विश्वस्तो जनः तवसमीपमपैष्यतीत्येवमाश्वास्य हस्तिनापुरं चचाल।

चतुर्थेऽङ्गेकथासारांश

            अस्मिन् चतुर्थेऽङ्गे कुसुमावचयव्यग्रयोः प्रियम्वदाऽनुशूययोः सख्योः मिथः संवादेनज्ञायते यत्तपोवने समारब्धस्य यज्ञस्य निर्विघ्नं समाप्तौ मुनिभिर्विसर्जितः राजा दुष्यन्तः स्वां राजधानीं प्रतिष्ठाय स्वान्तःपुरजनेन गान्धर्वविधिना परिणीतां सखीं शकुन्तलां संस्मरिष्यन् वेति। तमेव राजानं ध्यायन्ती शकुन्तला खिन्नमना उटजेऽवतस्थे सन्निधावेववर्तते।

            एतस्मिन्नेवावसरे – आः अतिथि परिभाविनि। यं स्वं प्रियमनन्य मनस्कतया विचिन्तयन्ती आतिथ्येन द्वारदेशे समुपस्थितं मां तपोधनं न वेत्सीत्यतोबोधितोऽपि सते प्रियः विवाहवृत्तं न स्मरिष्यति इति शप्त्वा सुलभकोपो महर्षिः दुर्वासा प्रतिनिवृत्तः।

            विचिन्तयन्ती यमनन्यमानसा।

            तपोधनं वेत्सि न मामुपस्थितम्।

स्मरिष्यति त्वां न बोधितोऽपि सन्

            कथां प्रमत्तः प्रथमां कृतामिव।

            इमं व्यतिकरं निशम्य अनुशूयासपदिमुुनिप्रसादनाय प्रियम्बदां प्राहिणोत्। तया च मुनि चरणयोः प्रणिपत्यभूयो भूयोऽनुनीतो महर्षिरवादीत् –ममशापः अन्यथा न भावी किन्तु अभिज्ञानाभरणदर्शनेन सशापो निवर्तयिष्यते इत्यभिधायान्तर्हितो जातः। सख्यौ च नगरगमन समये राज्ञा शकुन्तलायै प्रदत्ताङ्कुलीयकं स्मृत्वा शकुन्तलाचित्तोद्वेगभिया तच्छापवृत्तं तस्यै न निवेदितवत्यौ।

            अथ सोमतीर्थयात्रास्तः प्रतिनिवृत्रेन महर्षिणा कण्वेनग्निगृहे प्रवेशे कृते– ऽशरीरिण्या व्योमवाचा शकुन्तलाया दुष्यन्तेन साकं संवृत्तं वृत्तमवोचि। ततोमहर्षिः क्रीडावनम्रां शकुन्तला माश्लिष्य तत्कर्माभिनन्द। पतिगृहं प्रेषयितुकामः तदीय प्रस्थानमङ्कलविधिमादिदेश च। गौतभ्यादिभिः जरतीभिः तापसीभिराशीर्वचनपूर्वकं निर्वतितप्रस्थानकौतुका, सखीकृत मङ्कलसमारम्भे च शकुन्तला मालिन्यां स्नानादिकृत्यं कृत्वाऽगतं तातकण्वं प्रणनाम। स च प्रेमगद्गदया वाचा – जाते –शाकुन्तले आत्मसदृशेन भत्र्रात्वं सङ्कतेति प्रसीदति तमां मे चेतः। पति गृहं समुपस्थाय मर्यादापालनपूर्वकं पतिसपत्नीश्वसुरश्वश्रुपरिजनादीनां सन्तोषकरकार्यं कार्यमित्यादिश्य, ययातेः शर्मिष्ठेव भर्तुः बहुमता भवेत्याशिषमददात्।

            ततः शकुन्तला तातानुरोधेन हुताग्नीन् प्रदक्षिणीकृत्य वनदेवताश्च प्रणम्य विभिन्नेर्वृक्षादिभिर्दत्तानि दिव्यानि आभरणवस्त्रादीनि परिधाय स्नेह विकलवेन कण्वेन वयस्याभ्यां चानुगम्यमाना पदे पदे स्खलन्ती प्रतस्थे। उदकान्तं प्रियजनोऽनुगन्तव्य इति शास्त्र नियमेनोदकान्तं गत्वा महर्षिः कण्व दुष्यन्ताय समुचितं सन्दिश्य शकुन्तलामपि प्रसङ्कोचितमुपदिशत्। सख्यौ अपि प्रियंवदानुसूयेः प्रियसखि, शकुन्तले, यदि स राजा प्रति अभिज्ञानमन्थरो भवेत्तदा नगरगमनसमये तुभ्यमर्पितं तदङ्कुलीयकं तस्मै दर्शयितव्यमिति संदिदिशतुः।

            ततो गौतमीशारङगद्वतैः सह शकुन्तलाहस्तिनापुरं प्रतस्थे, कण्वश्च प्रियम्बदानुसूयाभ्यां साकं शकुन्तलाशून्यं स्वाश्रमं प्रति परावृतः स्नेहप्रवाहाविमर्शपूर्वकं प्रावोचत्–

            अर्थो हि कन्या परकीय एव तामेद्य संप्रष्ेय परिग्रहीतुः।

            जातो ममाय विशदः प्रकामं प्रत्यार्पितन्यास इवान्तरात्मा।।२१।।

पञ्चमेऽङ्गे कथासारांश

            अथास्मिन्नङ्गे वयस्येन माधव्येन सह राजधान्यां नागरिकवृत्या लयतालबद्धं हंसपदिका गीतं निशम्य तदर्थस्मारं स्मारं कामप्यन्तव्र्यथामानुभवति दुष्यन्तः। अत्रैवान्तरे कुलपतेः कण्वस्थादेशमादाय तपोवनात् सस्त्रीकाः तपस्विनः समायाता इति कञ्चुकी निवेदयति। ते श्रौतेन विधिना सत्कृत्य यज्ञशालायां प्रवेशयितव्याइत्यादिश्य राजापि तात् प्रतिपालयितुं तत्रोपतिष्ठते। ततः सोमरातः पुरोहितो राजा ज्ञया श्रौतेन विधिना तान् सत्कृत्य यज्ञशालामुपस्थापयत्। ततो प्रविष्तास्ते आशीर्वचनपूर्वक राज्ञे अवगुण्ठनवती शकुन्तलामधिकृत्य कण्ठस्य सन्देशं न्यवेदयन् –

            सतीमपिज्ञाति कुलैक संश्रयां

            जनोऽन्यथा भर्तृमतीं विशङ्गते।

            अतः समीपे परिणेतुरिष्यते।

            प्रियाप्रिया वा प्रमदा स्वबन्धुभिः।।१७।।

            परं महर्षेः दुर्वाससः शाप प्रभावेण स शकुन्तलायाः परिणयविधिं विसस्मारं अकथयच्च– भो भोः तपस्विनःनिपुणं विचारयन्नपि न स्मरामि अस्यादेव्या पाणिग्रहणम्। तत्कथमिमामभिव्यक्तसत्वलक्षणां प्रति आत्मानां क्षत्रिणं मन्यमानः प्रतिपत्स्ये। तत्कण्वस्यान्तेवासिभ्यां साधिक्षेपमुक्तोऽपि शकुन्तलाया अवगुण्ठनापनयनानन्तर प्रत्यक्षीकृत्यापि यदा नाङ्की चकार तदाऽभिज्ञानेन तस्य शङ्गामपनेतुं शकुन्तला प्रववृते परमङ्कुलीयक शून्यामङ्कुलीं दृष्ट्वा परं विषण्णा सती तस्मै दीर्घापाङ्कमृगशावक जलपानप्रत्ययवचनं दत्तवती। तथापि वैफल्ये सति राजा अवोचत् आत्मकार्य निर्वर्तनीनामनृत वाङ्माधुरीभिः विषयिण आकृष्यन्ते। उड्डयनशक्तेः पूर्वं परभृतः स्वानि अपत्यानि काकैः परिपोषयन्ति। अशिक्षितास्वपि स्त्रीषु परवञ्चवकौशलं प्रसिद्धमेव। अतोवनवासवद्र्धिवापीयं शकुन्तला स्त्रीभावसुलभं वञ्चनकौशलं जानात्येव। यदि स्त्री जातौ समुत्पन्नासुशिक्षणं विनैव नैसर्गिक वचनं पटुत्वं  दृश्यते। तर्हि वागव्यवहार कुशलासु मानुषीषु किं वक्तव्यम् ?

            स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत या प्रतिबोधवत्यः

            प्रागन्तरिक्षगमनात् स्वमपत्यजातमन्यैद्र्विजैः परभृतः खलु पोषयन्ति।।२।।

            त्वं जनयित्वा जङ्कले उत्सृष्ठा कोकिलेवपुरैः भृतासि। अतः कामं गच्छ, तिष्ठ वा यदेच्छं कुरु। एवं स्वजनन्युपमर्देन सन्तप्ता शकुन्तला दुष्यन्तं प्रति अनार्थ आत्मनोऽनुमानेन सर्वान् प्रेक्षसे इति। तृणैराचछन्नकुपस्य इव धर्मकञ्चुकिनः त्वत्तोऽन्य संसारे कः पापबुद्धिः। ततो राजा सुभगे प्रथितं दुष्यन्तस्य चरितं। न मे प्रजासु त्वत्समं छलकपटदिकं दृश्यते ततो गौतमी जाते,पुरुवंशप्रत्ययेन मधुरभाषिणो हृदय– निहितविषस्य दुष्यन्तस्य हस्ते त्वमुपगता। ततः शकुन्तला पटान्तरेण मुखमाच्छाद्य  रोदिति। ततः शारद्वतोऽब्रवीत् शाङ्र्करव, किमुत्तरप्रत्युत्तरेण। आस्माभिः गुरोः नियोगोऽनुष्ठितः प्रतिनिवर्तामहे। राजानं प्रति इयं ते पत्नी त्यजैनां गृहाण वा। गौतमि। गच्छाग्रतः। शकुन्तले, पठिकुलेते दास्यमपि शुचिक्रतमित्यादिश्य सर्वे प्रस्थिताः।

            राज्ञा समयोचितं कर्तव्यं पृष्टः पुरोधा प्रोक्तावान् – इयं देवी तावत् मम गेहे एवाप्रसवं तिष्ठतु। त्वं प्रथमं चक्रवर्तिनं पुत्रं जनयिष्यसीति सिद्धैरादिष्टम्। तद्यदि मनि दौहित्रः तल्लक्षणोपपन्नः स्यात्तर्हि इमामभिनन्द्यान्तः पुरे प्रवेशयिष्यसि विपर्ययेऽस्याः पितुः समीपे गमनमुचितम्। राज्ञानुमतोऽतौ यदा स्वगृहं गन्तुं प्रववृते तदैव भगवति वसुधे। देहि मे विवरमिुत्यभिदधानास्वानिभाग्यानि च निन्दन्तीं क्रन्दमानां च तां शकुन्तलां स्त्री सदृशमेकं ज्योतिरुत्क्षिप्याप्सरस्तीर्थं जगामेति      पुरोहितो निवेदयति। तस्मिन्नदन्ते साश्चर्यः पर्याकुलो राजा शयनागारं प्रविष्टश्चिन्तयति–

            कामं प्रत्यादिष्टां स्मरायि न परिग्रहं मुनेस्तनयाम्।

            बलवत्तु दूयमानं प्रत्यायतीवमे हृदयम्।।३१।।

षष्ठेऽङ्गे कथासारांश

            अथ गच्छति किञ्चित्काले शक्रावतारतीरवर्तीं कश्चिद् धीवरी रत्नजटितं राजनामोत्कीर्णं बहुमूल्यमेक स्वर्णमयमङ्कुलीयकं विक्रेतुमापणे गच्छन् राजपुरुषाभ्यां बद्धहस्तो नगररक्षकराजश्यालकसमीपमानितः अङ्कुलीयकागमनकारणं पृष्टः स बू्रते– स्वामिन्, जालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणपोषणं करोमि। एकदामयाजाले एको रोहितो मत्स्य आसदितः। खण्डस्य कल्पितस्य तस्य मत्स्योदरे रत्न भास्वर– मिदमङ्कुलीयकं मयालब्धा विक्रेतुमापणे आगतः आभ्यां गृहीतः आनीतश्च। तदाकण्र्य नगरपालः तदङ्कुलीयकमादायराजकुलं गत्वा राजशासनं प्रतीक्षा प्रत्यागतो रक्षिणावुवाच – मुच्यतामेष जालोप जीवी धीवरः। विदितोऽस्याङ्कुलीय–कस्यागमवृत्तात्तः एषोऽङ्कुलीयकमूल्य सम्मितः प्रसादोऽपि सन्तुष्टेन राज्ञाऽस्मै प्रदत्त इत्युक्त्वा तस्मै धीवराय स्वर्णकङ्गणं दत्तवान् चकार च तेन साकं     कादन्वरो मैत्रीम्।

            अथ मेनका, सहचरी, सानुमती नामाप्सराः पर्यायनिवर्तनीयमप्सर– स्तीर्थसान्निध्वं सम्पाद्य राज्ञो दुष्यन्तस्य प्रमदवने प्रविष्टा तिरस्करिणी प्रतिच्छन्ना  राज्ञः पार्श्ववर्तिनी भूत्वा तस्थौ। अङ्कुलीयकदर्शनेन स्मृत शकुन्तलो राजा क्वापि शान्तिं न लेभे वसन्तोत्सवं प्रतिषिध्य माधव्याद्वितीयः शकुन्तलावृत्तान्त भूयो भूयः स्मरन्निन्दश्चात्मनश्चेष्टितं शकुन्तला–चित्र–लेखनादिना तद्विषयकालापैश्च कथं कथमपिनिनाय दिवसान्। प्रत्यादेशविमानितायाः शकुन्तलाया विरहेन दुःख मनुभवन्, रात्रौ जागरणात् न मया धर्मासनमध्यासितुं सम्भावितमतो यत् प्रत्यर्वोक्षत ममात्येन तत् पत्रमारोप्यतामिति पौरकार्यपर्यवेक्षणे नियुक्त ममात्यमादिशति।

            ततः समुद्र व्यापारव्यवहारी सार्थवाहो धनमित्रो नौव्यसने विपन्नः। अतोऽनपत्यस्य तस्याथंसंचयो राजगामी भवेदित्यमात्यै न लिखितं विचार्यात्मनोऽनपत्यतां स्मरन् मदवसाने पुरुवंशश्रित एष एव विषाको भवितेति भावयन्, बहुपत्नीकस्य तस्य धनिकस्य काचिद्भार्यां आपन्नासत्वा स्यात्तहिं तद्भार्यागर्भस्य एव शिशुः पित्त्यं हर्हतीत्यादिशति धर्मात्माराजा दुष्यन्तः। इमं निखिलं वृत्तान्तं मेनकानियुक्त्वा सा सानुमती प्रत्यक्षीकृत्य स्वसख्यै मेनकायै प्रियनिदं निवेदयितुं कामा ततो दिवं निर्जगाम।

            अत्रान्तरे केनापि अवलक्षितेन सत्वेनाक्रान्तो माधव्योऽब्राéयमुद्–  घोषितवान्। ततो भूयः तस्मिन् मेघ प्रच्छन्ने प्रासादे आर्तस्वरं निशम्य स्ववयस्यस्य संरक्षणाय स्वधनुंषि अमोघं स्वं वाणं सन्दधे। तदामाधव्य मुन्मुच्छेन्द्रसारचिर्मात– तिराविर्भूर्र्य हरिणा असुरास्ते शरण्यं कृताः तेष्वेवेदं धनुः विकृष्यतां न मवि इत्युवाच। तदनु राज्ञाभिन्दिोऽसौ तस्मै स्वागमनकारणमाख्यत् राजन्,कालनेमिप्रसूतो दुर्जयो नाम दानवगणः ते सख्युरिन्द्रस्याजेयो जातः। तस्य त्वनिहन्ता स्थितः। अतः आत्तशस्त्रं इमरिन्द्ररथमारुद्भ विजयाय प्रतिष्ठिाम्। तदाकण्र्यं राजा दुष्यन्तः अनुगृहीतोऽस्मि अनया मघोनः सम्भावनया इत्युत्क्वा माधव्यस्याक्रमणकारणं दृष्ट्वा ज्ञात तथ्यः स्वगमनवृत्तात्तममात्याय निवेदयितुमादिश्य तस्मिन् राज भारतं च नियोजितवान् प्रद्भष्तमना–

            त्वन्मति केवला तावत् परिपालयतु प्रजाः।

            अधिज्यभिदमन्यस्मिन् कर्मणि आप्ततं धनुः।।३२।।

            तदनन्तरं स वासवीयं रथमारुद्भ दिवं प्रस्थितवान्।

सप्तमेऽङ्गे कथासारांशः

            अस्मिन्नङ्गे कालनेमिप्रसूतं दुर्जयदानवगणं निहत्य देवकार्यसम्पादनानन्तरं देवराजस्य सत्क्रियया सम्भावितो राजा दुष्यन्तो व्योमयानेनावतरद् मातलि परिचायिता देवभूमीरवलोकयन् मध्ये मार्गे हेमकूटं किम्पुरुषवर्षपर्वतं दृष्ट्वा तत्र तप– श्चरतः सपत्नीकस्य मरीचि नन्दनस्य देवपितु कश्यपस्य दर्शनलालसया तदाश्रममवतरति। तत्र प्रजापतिः कश्यप ? स्वभार्यया दक्षकन्याऽदित्या पतिधर्ममधिकृत्य पृष्टो महर्षि पत्नीभिः सहितायै तस्यै उपदिशति इति ज्ञात्वाऽशोकवृक्षमूले राजा समुपविशति,मातलिश्च राजागमनं निवेदयितुमवरं ज्ञातुं महर्षिसमीपे प्रस्थितः।

            तत्र नरपतिः शुभसूचकचिह्मनुभवन् तापसीभ्यां निषिध्यमानेन बालसत्वेन बालेन संक्रीडितुं सिंहशिशुं तलादाकृष्टं जृम्भस्व सिंह, दन्तास्ते गणयिष्ये इति      विरोचितैः कृत्यैः औरससुतानुरागेनाकृष्तो भवति। कस्यकृतिनोवृजमयं बाल इति विमृशन् स सिंह शाषकादन्यत् क्रीडनकं ग्रहीतुं प्रसारितकरस्य तस्य बालकस्य हस्ते चक्रवर्ती लक्षणं दृष्ट्वा तो वाग्व्यापरोणायं विरमयितुमशक्य इति मत्वा एक तापसी तं प्रलोभयितुं मृत्तिकामयुरमानेतुं स्वकुटीरे जगाम। ततो इतस्ततोऽवलोक्य         राजानमचोचत् –भद्रमुख, मोचयानेन दुर्मोक हस्तेन बाध्यमानं बालमृगेन्द्रम्। ततस्तावत्तद्वचनमनुतिष्ठन् बालस्पर्शसुखमुपलभ्य कामपि अपूर्वां निवृतिमेतः सतां तद्बालकवंशपरिचयादिकं पप्रच्छ। सा च तस्य पुरुवंशप्रभवत्वम्। अभरसः सभ्वत्वं चावोचत्।

            यदा च केसरिकिशोरकविमर्दात्तन्मणिबन्धात् परिभ्रष्टं रक्षाकरिण्डकं दुष्यन्तो यावद् गृहगति तावत्तापसी निवेदयते –एषा अपराजितानामौषधिरस्म शिशोः जातकर्मसमये भगवताकश्यपेन बद्धा। यदि जननी जनकं बालकं विहायान्यः कश्चिद् भूमीपतितामेनां गृह्णाति तदा सर्पो भूत्वा तं दशती त्यनेकशो दृष्टचरम्। ततः स्वपुत्र एवायमिति जातनिश्चयो वालं प्रेम्णापरिसवाजे। ततस्वापसीभ्यां तदुदन्तमुपलभ्य तम्रागतां शकुन्तलां समीक्ष्यतामभिनन्दन। ततः मातरमालोक्य सर्वदमनः मातः। क एष पुत्र इति कथयित्वा मामालिङ्कति ततः सा आयुष्मन् स्वम्भाग्यं पृच्छेत्युत्तरति। ततः प्राणिपातादिना शकुन्तलाया विषादशल्यमुद्धरन्नुवाच राजा – प्रिये, मया त्वं मोहात्स्वयमुपरस्थतापि उपेक्षिता। पश्चातापदूनह्दयो नृपो अङ्कुलीयकोपलम्भात् स्मृतिरूपलब्धेत्युक्त्वा तस्यै तदँ्गुलीयकं दर्शयति। विषमं कृतमनेन यत्तदाऽर्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत्। नास्य विश्वसिमि आर्यपत्र एवैतद् धारयतु।

            तत्र च तादृशं भूयं वीक्ष्य मातलिसौभाग्येनायुस्मान् धर्मपत्नी समागमेन पुत्रसुखदर्शने च वद्धसे इत्युक्त्वा तं सम्भावयामास। ततो राजा मातले, वृत्तान्तेनानेनाखण्डलोऽवलोद्ध्य इति विारे मातलिः विहस्याह किमीश्चराणामविदितं, सर्वं जानाति स सहस्त्राक्षो देवराजः एतु आयुष्मान् सपत्नीको मरीचि नन्दनो महर्षि कश्यपः ते दर्शनं वितरति। अनन्तरं सकलत्रपुत्र राजा भगवन्तं कश्यपमदिति च द्रष्टुमुपस्थितः ततो महर्षि स्नेहदृष्ट्या शुभशिषा तावनुगृह् आयुष्मन् दुर्वाससः शापादियं तपस्विनी शकुन्तला त्वया प्रतयादिष्टा नान्यथा वत्से चरितार्थासि सहधर्मचरिणं दुष्यन्तं प्रतित्क्या मनुर्न कार्य इत्याभाष्य प्रत्यादेशविषये उभावपि निवृत्तचित्तौ कृत्वा शुभाशिषा संयोजयति।

            आखण्डलसमो भर्ता जयन्त प्रतिमः सुतः

            आशीरन्या न ते योग्या पौलोमी सदृशी भव।।२८।।

            मेनकापि तत्र भर्तृपुत्रसहितां दुहितरं दृष्ट्वाऽतिमुमुदे। ततो दुष्यन्तो भगवता मारीचे विसृष्टे पुत्रकलत्राभ्यां सहिते दिव्यमैन्द्रं रथमारुद्भ पौरैरभिनन्द्य मान स्वं नगरं प्रविवेश।

            उपर्युल्लिखितकाव्यरत्नद्वयोः सङ्क्षिप्ताध्ययनादपि तयोराख्याने साम्य–वैषकम्ये स्तः, इति ज्ञातुं शक्यते। प्रसिद्धाख्याने च वैभिन्न्यं दृश्यते चेत् मौलिकनाटकमहाकाव्ययोराख्यानसंयोजने मौलिकं परिवर्तनं भवितुमुचितमेव।

            प्राकृतिकसौन्दर्यप्रियता, स्वच्छन्दवादिता चेति कविद्वयोर्वैशिष्ट्यं, तथापि कालिदासस्याभिज्ञानशाकुन्तलनाटकेकालिदासस्यानुभूतेर्वतुभयसंयोजनं         संरचनाविधानस्योच्चा च दृश्यते (त्रिपाठी, २०४५: ६८–६९) इति भणितिर्दृश्यते। लक्ष्मीप्रसाद देवकोटा महाभागस्य वेगप्रवाहविस्तारमयस्यावधौ लिखिते शाकुन्तलमहाकाव्ये कवित्वशक्त्याऽख्यान तत्त्वं विस्तारितं त्रिपाठी, २०४५:३२) इति कथनादपि काव्यद्वयोर्मध्येऽऽख्यानसंयोजने वैभिन्न्यं वर्तत इति सिद्ध्यति।

   आख्यानपात्रपरिवेशघटनादिपरिवर्तितेऽपि काव्यरत्नयोद्र्वयोरङ्कीरसस्यापरिवर्तनं दृश्यते। शृङ्काररस एवं द्वयोः काव्ययो मुख्यो दृश्यते। महाकविना देवकोटामहाभागेन शाकुन्तलमहाकाव्यस्यादावेन मङ्कलाचरणात्मके यद्येऽस्य महाकाव्यस्याख्यानसूत्रं प्रदर्शितं, रसश्च सूचितः तत्रत्यमादिपद्यं यथा –

            “चिम्ली लोचन दीर्घ काल तपमा खोलेर वासन्तिका

            नाच्दी सुन्दर तालले पवनमा देखी फुलेकी लता

            बिर्सेझैँ भन को तिमी? यति भनी गौरी रुलाईकन

            मुस्काएर फुल्याउँदा शिव दिऊन् कल्याणको चुम्बन।।”

            (देवकोटा, शाकुन्तलः१,१)

            वस्तुनिर्देशात्मकस्य पद्यस्यास्य विश्लेषणं कुर्वन् कुमारबहादुर जोशीमहोदयः शकुन्तलाया जीवनं चतुर्भागेषु विद्यायऽधीते महाकाव्यस्याख्यानसूत्रमपिज्ञातुं शक्यत इति कथयति (जोशी, २०४५:१६४) जीवनस्यादौ सा शकुन्तला ऋषेः कण्वस्याश्रमे तपोयमनियमादिपूर्वकं तिष्ठति। द्वितीयचरणे तस्या जीवने वसन्तस्य, अर्थात् दुष्यन्तस्यागमनं भवति। तृतीये चरणे दुष्यन्तशकुन्तलयोर्विप्रयोगो भवति। गान्धर्वविधिना विवाहितां स्वपत्नीकृतामपि शकुन्तलां दुष्यन्तो विस्मरति। चतुर्थे  चरणे तयोः पुनर्मिलनं भवति।

            अनया रीत्या, दृष्ट्या चाधीतेऽऽख्यानरसयोः पूर्वसङ्गेतं प्राप्तुं शक्यते। शाकुन्तलमहाकाव्ये शब्दव्यापारेषु व्यञ्जनाव्यापारस्यैवाधिकः प्रयोगो विद्यते, इत्यस्यापि पूर्वसङ्गेतमेतन्मङ्कलाचरणपद्यमिति निःदृश्यते।

            रतिः स्थायिभावयुतस्य शृङ्काररसस्य प्रमुखौ द्वौ भेदौ वर्णितौ स्तः। संयोग विप्रयोग नामानौ शृङ्काररसौ शास्त्रे काव्ये च प्रसिद्धौ स्तः। अध्यययनविषयभूतया–ेरभिज्ञानशाकुन्तलनाटकशाकुन्तलमहाकाव्ययोद्र्वयोरपि तयो रसयोः सुप्रयोगः परि–पाकरूपश्च दृश्यते। प्रसिद्धाख्यानभूतेषु ग्रन्थेष्वपि दुष्यन्तशकुन्तलयोः पारस्परि–कमाकर्षणं रतिश्च दृश्यते। अत्र नाटकमहाकाव्ययोस्तावेव मुख्यपात्ररूपेण प्रयुक्तौ स्तः। अतश्च काव्यद्वयोः पमुखरसापरिवर्तनं दृश्यते। संयोगः सम्भोगाख्यो वा शृङ्कारस्तु प्रसिद्ध एक एव। विप्रलम्भशृङ्काररसपरिगणना कारणविषये च विदुषां मतैक्यं न दृश्यते। काव्यप्रकाशकारस्य मम्मटस्य कथनानुसारं विप्रलम्भः शृङ्कारः पञ्चविधो भवति। अभिलाषाविरहेष्र्याप्रवासशापहेतुकः इति पञ्चविधः (मम्मटः २०४२:१२३) साहित्यदर्पणकाराविश्वनाथस्तु “यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसौ, अभीष्टं नायकं नायिकां वा। स च पूर्वरागमानप्रवासकरुणात्मकश्चतुर्धा स्यात्      (विश्वनाथः १९९८:१६२) इति कथयति।

            अनयोद्र्वयोराचार्ययोर्मतानुसारं मम्मटः शापहेतुकोविप्रलम्भाख्यं शृङ्काररसं स्वीकरोति, परं विश्वनाथः शापहेतुकं विना विप्रलम्भः शृङ्कारश्चतुर्धा स्वीकरोति। अभिज्ञानशाकुन्तलं नाटकस्य विप्रलम्भशृङ्काररसस्य परिपाकस्य हेतुरेव दुर्वासाविहितः शाप अस्ति। अतः एवाऽस्मिन् सन्दर्भे मम्मटस्य कथनमेव समुचितं दृश्यते।

            महाभारतपुराणादीनामाख्यानं गृहीत्वा तस्मिन्नाख्याने परिवर्तन संशोधन–परिमार्जनं विधाय मौलिकं वस्तु संस्थाप्य च महाकविकालीदासेनाभिज्ञानशाकुन्तलाख्यं विश्वप्रसिद्धं सुमनोहरं नाटकं विरचितम्। मूलमाख्यानाटकात् सङ्कृद्भ महाकाव्यी–करणे मौलिकं नैपालसम्बन्धिनञ्चाख्यानं संयोज्य नैपालकमहाकविना लक्ष्मीप्रसाददेवकोटामहाभागेन नैपालकाधुनिकमौलिकं विस्तारितं शाकुन्तलमहाकाव्यं विरचितम्। सप्ताङ्गपरिपूर्णत् दृश्यकाव्यादाख्यानं गृहीत्वा चतुर्विशतिसर्गात्मक–महाकाव्यलेखनमद्वितीयं कार्यं दृश्यते। काव्यद्वयोः सङ्क्षिप्ताख्यानाध्ययनादपि तयोः साम्य–वैषम्ये दृश्यते। तयोराख्यानस्य, प्राचीनाख्यानस्य च सूक्ष्माध्ययनाद् विश्लेषणाच्च वस्तुगतं तथ्यं प्रकाशयितुं शक्यते।

सन्दर्भग्रन्थसूची

१. अवस्थी, महादेव, आधुनिक नेपाली महाकाव्य र खण्डकाव्यको विमर्श, २०६४, काठमाडौं।

२. अर्याल, भैरव नेपाली काव्यमा प्रकृति ने.रा.प्र.प्र. काठमाडौं : २०३०।

३. अधिकारी, कृष्णराज, महाकाव्य सिद्धान्त र देवकोटाका महाकाव्य, २०६६ गण्डकी साहित्य सङ्कम, पोखरा।

४. अधिकारी, हेमाङ्कराज, पूर्वीय समालोचना सिद्धान्त सा.प्र. काठमाडौं           २०३५।

५. आनन्दवर्द्धन:, ध्वन्यालोकः चौखम्बा विद्याभवन वाराणसी, वि.सं. २०४४।

६. उपाध्याय, केशवप्रसाद, साहित्यप्रकाश (२०३०) काठकाडौं।

७. उपाध्याय, बलदेव, संस्कृत आलोचना हिन्दी समिति सूचना विभाग उत्तर   प्रदेश, भारत सन् १९६३।

८. उपाध्याय, बलदेव, संस्कृत साहित्यका इतिहास शारदा निकेतन, सन् १९७८ वाराणसी।

९. कालिदासः अभिज्ञानशाकुन्तलम् चौखम्बा संस्कृत सीरीज, वाराणसी ई.सं. १९७८।

१०. कुन्तकः वक्रोक्ति जीवितम् चौखम्बा विद्याभवन, वाराणसी इ.सं.१९७०।

११. खनाल, यदुनाथ, समालोचनाको सिद्धान्त सा.प्र. काठमाडौं: २०३०।

१२. गौतम, कृष्ण, देवकोटाका प्रबन्धकाव्य २०३८, इन्दु प्रकाशन, काठमाडौं।

१३. घिमिरे, शारदाप्रसाद, विश्वका कविको जीवनी काठमाडौं २०२६।

१४. जगन्नाथः, रसगङ्काधरः, चौखम्बा विद्यभवन वाराणसी, ई.सं. १९८२।

१५. चतुर्वेदी, सीताराम र अन्य, कालिदास ग्रन्थावली वि.सं. २०१९ अलीगढ, भारत।

१६. जोशी, कुमारबहादुर : देवकोटाका प्रमुख कविताकृतिको कालक्रमिक विवेचना वाराणसी २०४८।

१७. जोशी, कुमारबहादुर, महाकवि देवकोटा र उनका महाकाव्य, साझा प्रकाशन, काठमाडौं २०४५।

१८. जोशी, कुमारबहादुर चार अमर कविका पाँच काव्यकृति सा.प्र. २०२९।

१९. तिवारी, रमाशङ्गर, महाकवि कालिदास वि.सं. २०२९ चौखम्बा विद्याभवन, वाराणसी।

२०. त्रिपाठी, वासुदेव, महाकवि देवकोटा र उनका महाकाव्य सम्बन्धमा, महाकवि देवकोटा र उनका महाकाव्य (ले. कुमारबहादुर जोशी) साझा प्रकाशन, काठ. २०४५।

२१. त्रिपाठी, वासुदेव, सिंहावलोकन २०२७ काठमाडौं।

२२. दाहाल, लोकमणि, संस्कृतसाहित्येतिहासः कृष्णदास अकादमी, वाराणसी वि.सं. २०५०।

२३. देवकोटा, लक्ष्मीप्रसादः नेपाली शाकुन्तलमहाकाव्य (२००२) सा.प्र.काठ. आठौं संस्करण २०६३।

२४. देवकोटा, लक्ष्मीप्रसाद, दुष्यन्तशकन्तला भेट, सा.प्र. काठमाडौं २०२५।

२५. न्यौपाने, टङ्गप्रसाद, साहित्यको रूपरेखा साझा प्रकाशन २०३८।

२६. न्यौपाने, सुभाषचन्द्र, नवप्रवर्तन, जनता नवप्रवर्तन मञ्च, जनता बहुमुखी क्याम्पस, इटहरी सुनसरी, २०६८ : ८३–९४।

२७. पराजुली, कृष्णप्रसाद पन्ध्र तारा र नेपाली साहित्य सा.प्र. काठमाडौं दो.सं. २०२९।

२८. पाण्डे, ताराकान्त, देवकोटाका कवितामा हास्यव्यङ्ग्य (अप्र. स्नातकोत्तर शोधप्रबन्ध) नेपाली केन्द्रीय शिक्षण विभाग त्रि.वि. कीर्तिपुर २०५५।

२९. पोखरेल, भानुभक्त, साहित्यिक अनुशीलन सा.प्र.प्र.सं. २०३५।

३०. प्रधान, हृदयचन्द्रसिंह, नेपाली काव्य उसका प्रतिनिधि कवि सा.प्र. काठमाडौं २०२६।

३१. बस्याल, ध्रुवप्रसाद, लक्ष्मी निबन्ध सङÑग्रहको कृतिपरक विश्लेषणं (अप्र. स्नातकोत्तर शोधप्रबन्ध) नेपाली केन्द्रीय शिक्षण विभाग, त्रि.वि. कीर्तिपुर।

३२. बन्धु, चूडामणि, देवकोटा सा.प्र. काठमाडौं : २०३६।

३३. –––––– श्रीमद्भागवत्महापुराणम, २०६५ गीताप्रेस, गोरखपर।

३४. भट्टराई, बदरीनाथ, संस्कृतसाहित्यको सिंहावलोकन काठमाडौं २०२०।

३५. भट्टराई, घटराज, संस्कृतका अमर साहित्यकार सा.पं काठमाडौं २०३४।

३६. भरतः, नाट्यशास्त्रम्, चौखम्बा, विद्याभवन वाराणसी, ई.सं. १९७२।

३७. मम्मटः काव्यप्रकाशः ज्ञानमण्डल लिमिटेड वाराणसी, वि.सं. २०४४।

३८. महर्षि, देवव्यास, महाभारतं, ओरियण्टल बुक्स रीप्रिन्ट करपोरेशन, दिल्ली, १९७९।

३९. मिश्र, रामचन्द्रः संस्कृतसाहित्येतिहासः चौखम्बा विद्याभवनm वाराणसी इ.सं. १९८२।

४०. विश्वनाथः साहित्यदर्पणम् चौखम्बा विद्याभवन वाराणसी, ई.सं. १९८२।

४१. वेदव्यासः, श्रीपद्ममहापुराणम् (द्वितीयो भागः) जवाहरनगर, दिल्ली इ.सं. १९८४।

४२. वेदव्यासः, महाभारतम् गोरखपुर वि.सं.२०५५।

४३. रिसाल, राममणि, नेपाली काव्य र कवि काठमाडौं: सा.प्र. २०३१।

४४. लाल, रामनारायण, संस्कृतशब्दार्थकौस्तुभ भारतः इलाहावाद इ.सं. १९५७।

४५. शर्मा, ऋषभदेव, प्राच्यदर्शनपरिचय पा.वि.के.त्रि.वि. कीर्तिपुर इ.सं.१९७७।

४५. शर्मा, जनकलाल, महाकवि देवकोटा, एक व्यक्तित्व दुई रचना सा.प्र. २०३२ काठमाडौं।

४७. शर्मा, तारानाथ, भानुभक्तदेखि तेस्रो आयामसम्म सा.प्र. २०२७।

४८. शास्त्री, सुरेन्द्रदेव, कालिदास और भवभूति के नाटकों का तुलनात्मक अध्ययन (शोधप्रबन्ध) सन् १९६९, साहित्य भण्डार, सुभाष बजार, मेरठ।

४९. शर्मा, शिवप्रसाद, कालिदास शाकुन्तलस्य देवकोटा शाकुन्तलेन सह तुलनात्मकं समीक्षणम् (अप्र. शोधप्रबन्धः) सन् १९९९ सम्पूर्णानन्द संस्कृत विश्वविद्यालय, वाराणसी।

५०. श्रेष्ठ, दयाराम, नेपाली साहित्यका केही पृष्ठ।

५१. सुवेदी, अभि, पाश्चात्यकाव्यसिद्धान्त ने.रा.प्र.प्र. काठमाडौं २०३०।

साहित्यसंग्रहपृष्ठतः उद्धृतः

भवतः का प्रतिक्रिया ?

like
2
dislike
0
love
1
funny
0
angry
0
sad
0
wow
0
विज्ञापनक्षेत्रम्
विज्ञापनक्षेत्रम्