संस्कृतमहत्त्वम्

सम्पूर्णभाषाया: जननी

संस्कृतमहत्त्वम्

      संस्कृतमहत्त्वं ग्रन्थोपक्रमश्च

देवासुरदैत्यदानवराक्षसाद्यखिलदेवयोनिनिर्विशेषसमादृतम्, निखिलमानवमङ्गलप्रदम्, सनातनजैनबौद्धचार्वाकदैशिकवैदेशिकसकल- वैदिकावैदिकमतमतान्तरानुयायिजनमनोमोदकं संस्कृतं हि सुसंस्कृतानामार्याणां जीवनसर्वस्वम्, सर्वादिजगद्गुरोर्ब्रह्मणो मुखेभ्यः स्वयं प्रवृत्ता वाक्, देवानां सर्वव्यवहारप्रसूर्दिव्या चामोघा च गीः, वेदोपवेदब्राह्मणारण्यकोपनिषत्स्मृतिपुराणोपपुराणशिक्षाकल्प- व्याकरणनिरुक्तच्छन्दोज्यौतिषन्यायवैशेषिकसाख्ययोगमीमांसावेदान्तादि-सर्वदर्शनकोषकाव्यनाटकाख्यानकाख्यायिकालडूआरचतुःषष्टिकला- सङ्गीतचतुर्वर्गगजगवाश्वपुरुषलक्षणचिकित्साग्रन्थेतिहासाङ्गसूत्र-
जातकभाष्यवार्तिकव्याख्याद्यखिलवाड्मय-जन्मभूः, निखिलविश्वभाषाऽऽदिजननी, मानवजीवनस्यादिमध्यावसानेषु सदा समपेक्षिता वाणी।

अथवा संस्कृतभाषाया वयं कान् गुणान् गायाम ? गायन्तोऽपि च कथं तेषां पारमासादयाम ? इयं हि भाषाऽस्मासु भारतीयत्वं
जागरयति, भारतीयेष्वेकतां सञ्चारयति, न केवल भारतीयाः प्रादेशिकीरेव, यावद् वैदैशिकीरपि भाषाः परिष्करोति, मानवमात्रस्य मस्तिष्कं संस्करोति, तत्र ज्ञानविज्ञानप्रभां प्रसारयति, तद्धृदये सर्वदाऽऽनन्दसन्दोहमारोहयति, सत्पथप्रवृत्तिं जनयति, सद्गुणगौरवं प्रकटयति, विश्वबन्धुतां विस्तारयति, सर्वभूतेष्वेकत्वं प्रदर्शयति, सर्वतः शान्तिं संस्थापयति, त्यागं, तपः, सन्तोषं, सेवां च शिक्षयति, विश्वकल्याणभावनामुद्भावयति, पञ्चशीलपरिशीलनमाविर्भावयति, ज्ञानविज्ञानयोः समन्वयमातनोति, भुक्तिं मुक्तिं चाविरोघेनोद्वेलयति, धर्मार्थकाममोक्षांश्चतुरोऽपि पुरुषार्थानू साध्यतया समुपस्थापयति, ऐहिकमामुष्मिकं चेत्युभयविधमप्युत्कर्षं सम्पादयति, कर्मणि, ज्ञाने, भक्तौ च सममनुयुनक्ति, सत्यं, शिवं, सुन्दरं तत्किमपि तत्त्वं सन्निधापयति, वाचि लालित्यं सिञ्चति, माधुर्यधाराभिः कर्णौ कृतार्थयति, विश्वस्यापि विश्वस्य चेतश्चमत्करोति, पूर्वेषामपि पूर्वजानां यशश्च संस्मारयति । किं बहुना, इयं कल्पलतेव नः किं किं न साधयति ?

एषा च भारते समुद्भूतापि गङ्गेव सर्वत्र जेगीयते, सर्वानेव च पावयति । भारते वैदिका अवैदिकाश्चेत्युभयेऽपि सम्प्रदायाः स्वस्वविचारपरिपाटीप्रबन्धेषु भाषान्तराणि स्वीकुर्वाणा अपि यद्यत् स्थास्नुतां, स्पष्टतां, मान्यतां च निनीषन्ति, तत्तदस्यामेव भाषायां प्रतिनिबध्नन्ति । स्वस्वाभिमतं च मतं सर्वजनसंवेद्यतां नेतुं जैनाः, बौद्धा अपीमामेव भाषां पुरा संश्रयन्ते । चार्वाका लोकायताश्चापि स्वस्वदर्शनान्यस्यामेव भाषायां प्रबध्नन्ति । यावद् बहिरपि भारताद् दूरदूरतरेषु देशेषु संस्कृतसाहित्यं सर्वतोऽप्रतिहतप्रसरं प्रविशति । वेदेषु, दर्शनेषु, पुराणेषु, काव्येषु, तथाविधेषु चान्येषु विषयेषु पाश्चात्यैर्विद्वद्भिः कृता गवेषणास्तेषां संस्कृतभाषाभिरुचेःप्रबलानि प्रमाणानि सन्ति ।

यस्मिन् कस्मिंश्चिद्देशे, यस्यां कस्याञ्चिच्च जातौ जातेन येन केनापि मानवेन संस्कृतभाषाया अध्ययनाध्यापनादिना, सम्पादनप्रकाशनादिना वा सेवा सम्पादिता, स सर्वोऽपि मानवोऽस्माकंमाननीयः, श्लाघनीयश्चास्ति । तथाप्यनादिकालात्प्रवृत्ताया अस्याः
संस्कृतभाषायाः सार्वकालिकः सेवाविधेरितिहासश्चतुराननादपि चतुरतरेण केनचन कविना कोविदेन वा न सम्पादयितुं शक्यते इति
गतामेव शताब्दीमाश्रित्यायं ग्रन्थः सन्दृभ्यते । तत्रापि कालो यथा निरवधिः, पृथिव्यपि तथा विपुलेति पृथिव्यां भारतं वर्षं,
भारते वर्षे च तदीयमुक्तमाङ्गं जम्बूसमेतं काश्मीरमेवावालम्ब्यायं समुपक्रमः । समस्तस्याप्यस्य देशस्य प्रदेशोऽयं मौलिभूतोऽप्यद्यावद्यैर्नरैरुत्थापिताभिर्विपद्भिरभिभूयमानोऽस्तीत्यस्मै स्वस्तये, एनं प्रति भारताभिजन-जन-भावनाजागरणाय
चेत् एवायं शुभारम्भः । क्रमशस्तु कृत्स्नाया अपि सुरसरस्वतीसेवापरिपूतमृत्स्नाया भुवोऽस्यां संस्कृतोपहार्याणां कार्याणां तत्कार्यकराणां चायं विशद इतिहासः प्रस्तूयमान एवास्ति। शम् ।

                      
(विश्वसंस्कृतशताब्दिग्रन्थान्तर्गतं लेखनम्)

भवतः का प्रतिक्रिया ?

like
7
dislike
0
love
0
funny
0
angry
0
sad
0
wow
0
विज्ञापनक्षेत्रम्
विज्ञापनक्षेत्रम्