कोरोनाभीतिनिवारणोपायः सदाचारः

मतयो यत्र गच्छन्ति तत्र गच्छन्ति वानराः । शास्त्राणि यत्र गच्छन्ति तत्र गच्छन्ति ते नराः ।। 

कोरोनाभीतिनिवारणोपायः सदाचारः

प्रस्तोता-  डा. गुरुप्रसादः सुवेदी 

देवघट्टम् ।  

          

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ।।

योऽर्थाय विष्णुरुदधेरुदभूत् सुराणां नानाविधामयविनाशविधानविज्ञः ।

पीयूषयूषपरिपूर्णघटं गृहीत्वा धन्वन्तरिः सुखकरोऽस्तु करोनविंशः ॥

सभाध्यक्ष कविकुलगुरुकवलिदाससंस्कृतविश्वविद्यालयस्य कुलपति, श्रीमान् श्रीनिवास बरखेडीमहोदय, विदुषी सजिथाश्रीनिवासन् महोदया, संयोजक गजेन्द्रकुमारपण्डामहोदय, शतशो व्यख्यातारः, सहभागिनश्च । सर्वानपि भवतः सप्रणतिपातं प्रणमामि । ततश्च कोरोनाकाले संस्कृतम् इत्याख्येsन्ताराष्ट्रियसम्मेलने कोरोनाभीतिनिवारणोपायः सदाचारः स्वकीयं वाग्व्यवहारमुपस्थापयामि ।

  • विषयप्रवेशः

साम्प्रतं कोरोनाख्यक्रूराणुप्रभावतः समग्रमानवसमुदायः आयस्तस्त्रस्तो वा दरीदृश्यते । चतुष्कोट्यधिका जना संक्रमिताः, सार्द्धैकादशलक्षकल्पा जनाश्च कालकबलीभूताः । समृद्धिमसमृद्धिञ्चाविगणय्य सर्वानविशेषेणाक्राम्यति कोरोनेति नूनं खेदस्य विषयः । इयं किल महती समस्या । परं कस्या अपि समस्यायाः समाधानाय संस्कृतानुगा वयं संस्कृतमेवोपायमन्वेषयामः । संस्कृतञ्चेत् विषमपि अमृतायते । कोरोना अपि संस्कृता चेत् करुणा स्याद्, कोभिड् अपि कोविद् स्याद् । अस्माकमेतच्चिन्तनमस्ति –

को रोगः केन सम्प्राप्तो वर्द्धते क्षीयते कथम् । इति नावसितं तावत् प्रतीकारः कथं भवेत् ।।

समस्यायाः मूलं किम् ?, कथमायातम् ? कथं वर्द्धते ? कथं क्षीयते ?  एवं समस्यायाः बलाबलं विचार्य तदपाकरणोपायश्चिन्तनीय इत्यास्माकं संस्कृतशिक्षा । संस्कृतानुगैरस्माभिः कोरोनायाः प्रतीकारोपाया संस्कृतरत्नागारादेवान्वेषणीयाः । तदर्थमेवायमुपक्रम इत्यहं मन्ये । अद्याहं संस्कृतवाङ्मयान्तर्गतसदाचारसिद्धान्तं तदनुकूलमाचरणञ्च कृत्वा कोरोनाक्रमणान्मुक्तिरिति शास्त्रबलादनुभवबलाच्च सिषाधयिषामि ।   

  • कोरोना, तदुपद्रवः, तत्कारणञ्च

साम्प्रतं पसृमरः कोरोनाख्यः सूक्ष्मतमोsयं क्रूराणुः सदाचारस्योपेक्षया दुराचारस्यनुसरणेन च प्रदुर्भूतः प्रसृतश्चेति नात्र कश्चिच्छङ्कापङ्ककलङ्कलेशः । श्वान-जतुक-कुक्कुराशीविषादिप्राणीनाम् मांसादनेन तत्संस्पृष्टसंपर्केण च तादृशरोगोत्पत्तिरिति नाविदितं शेमुषीजुषाम् । रोगारम्भकदोषस्य प्रकोपात् रोगोsपि विकारान्तरतामवाप्नोति । स एव उपद्रवपदवाच्यो भवति । यथहुरार्याः-

रोगारम्भकदोषस्य प्रकोपादुपजायते । योsन्यो विकारः स बुधैरुपद्रव इहोदितः ।।

साम्प्रतिकः क्रूराणुरपि उपद्रवविशेष एव । शास्त्रनिषिद्धाचरणमेवात्र हेतुः । सूचितञ्चैतन्मनुना -  

विहितस्याननुष्ठानात् निषिद्धस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नर पतनमृच्छति । अन्यच्च- दुराचाररतो लोके गर्हणीयः पुमान् भवेत् । व्याधिभिश्चाभिभूयेत तथाल्पायुः सुदुःखभाक् । श्रुतिस्मृतिप्रतिपादितसदाचारमार्गं विहाय वानरगतिमनुकुर्वन्तो जनाः कोरोनादि-क्रूराणुग्रस्ता भवन्ति । उक्तञ्च

मतयो यत्र गच्छन्ति तत्र गच्छन्ति वानराः । शास्त्राणि यत्र गच्छन्ति तत्र गच्छन्ति ते नराः ।। 

वस्तुतः तादृशाः दुराचारता जना मनुष्यपदवाच्या एव न भवन्ति । (यास्कः) मत्वा कर्माणि सीव्यन्त इति मनुष्याः । साक्षाद्दुराचारमननुसरन्तोsपि जना तत्सङ्गिसङ्तः परम्परया दोषैराक्राम्यन्त इति सङ्गदोषोsपि हेयः ।

मनु-याज्ञावल्क्य-पराशरादिप्राचीनाः स्मृतिकाराः दोषमिमं पापनाम्ना व्यवहरन्ति स्म । साक्षात्पापाचरणाभावेsपि सम्पर्कदोषात् पापसंक्रमः सम्भवतीति तेषां हार्दम् । पापसंक्रमः कथं भवतीति विषये स्मृतिकाणां वचनमिदं स्मरणीयमस्ति । 

आसनाच्छयनाद्यानात् भाषणात्सहभोजनात् । संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि ।

देवलोsप्याह-

संलापस्पर्शनिःश्वाससहशय्यासनासनात् । याजनाध्यापनात् यौनात् पापं संक्रमते नॄणाम्

पापादेव रोगोत्पत्तिः । पापपरिणाम एव रोगः । पापस्य रोगस्य च घनिष्ठा मैत्री ।

पापानां व्याधिभीः सार्द्धं मित्रता सन्ततं ध्रुवम् । पापं व्याधिजराबीजं विघ्नबीजञ्च निश्चितम् ।

पापेन जायते व्याधिः पापेन जायते जरा । तस्मात् पापं महावैरं दोषबीजममङ्गलम् ।।

शास्त्रेषु पापस्यापि महापातकोपपातकादिभेदाः प्रतिपादिताः सन्ति । रोगाश्च कारणभेदेन बहुविधा भवन्ति । स्वाभाविकाः क्षुत्पिपासादयः, आगन्तवोsभिघातादिजन्याः, मानसाः कामक्रोधादयः, कर्मजाः प्राक्तन दुष्कृतादिजन्याः, दोषजाः मित्थ्याहारविहारादिजाश्चेति ।  कर्मजाः, दोषजाश्च रोगाः पापजन्या एव । पापजरोगविभागक्रमे के रोगा महापापजन्याः, के चोपपातकजन्या इति कर्मविपाकग्रन्थे शातातपः प्राह-  

कुष्ठञ्च राजयक्ष्मा च प्रमेहो ग्रहणी तथा  । मूत्रकृच्छ्रराश्मरीकाशा अतिसारभगन्दरौ ।।

दुष्टव्रणं गण्डमाला पक्षाघातोsक्षिनाशनम् । इत्येवमादयो रोगा महापापोद्भवाःस्मृताः ।।

जलोदरयकृत्प्लीहशूलरोगव्रणानि च । श्वासाजीर्णज्वरच्छर्दिभ्रममोहगलग्रहाः ।।

रक्तार्वुदविसर्पाद्या उपपापोद्भवा गदाः । दण्डावतनकश्चित्रवपुःकम्पविचर्चिका ।

वल्मीकपुण्डरीकाद्याः रोगा पापसमुद्भवाः । अर्श आद्या नृणां रोगा अतिपापातद् भवन्ति च ।।

एवं पापस्य रोगस्य च सम्बन्धो दरीदृश्यते । पापनिवासः त्वचि (चर्मणि) अस्थ्नि च भवति । इति पूर्वोक्तरीत्या पापस्येव रोगाणामपि संक्रमः सम्पर्कदोषाद् भवतीति प्राचीनाचार्याः प्राहुः ।  सुश्रुतोsप्याह –

प्रसङ्गाद् गात्रसंस्पर्शात्  निःश्वासात् सहभोजनात् । सहशय्याशनाच्चापि वस्त्रमाल्यानुलेपनात् ।

कुष्ठं ज्वरश्च शोषश्च नेत्राभिस्यन्द एव च । औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम् ।।

  • सर्वज्ञाननिधानं संस्कृतम्

सं पूर्वककृधातोः संस्कृतशब्दनिष्पत्ति । स एव प्रकृतिः संस्कृतेरपि । संस्कारयुक्तमेव संस्कृतम् ।  संस्कृतं नाम दैवी वाक् । संस्कृतवाचः उच्चारणमात्रेण दैवभावापत्तिर्भवति । मनसि दिव्यगुणाः प्रादुर्भवन्ति । असंस्कार एव विकारः । वातावरणस्य विकारो वा स्यात्, शरीरस्य विकारो वा स्यात्, वाचो विकारो वा स्यात्, मनसः विकारो वा स्यात्,  अविशेषेण विकारा एव रोगाः । विकारविशेषा एव सांप्रतिकाः क्रूराणवः । तेषामपाकरणं संस्कारेण परिष्कारेण वा भवति । नान्यः पन्था विद्यतेsयनाय । संस्कारस्योपायाः संस्कृतरत्नागारे बहुधा सन्ति । यथा, सदाचारपरिपालनम्, स्वधर्मानुष्ठानम्, वैदिकसनातनसंस्कृतिपरिपालनम्, तपश्चरणादिना देहशुद्धिः, यमनियमादियोगाङ्गानुष्ठानम्, सूर्योपासना, अग्निहोत्रादियागानुष्ठानम्, सात्त्विकाहारविहारादिः, आयुर्वेदोक्तानामौषधानां सेवनम्, गव्यसेवनञ्चेत्यादि । क्रूराणुदोषोपशमनाय सत्सु बहुषूपायेषु स्वधर्मानुष्ठानं स्वसंस्कृतिपरिपालनञ्च सदाचारान्तर्गतं विभाव्य साम्प्रतमत्र सदाचारपालनस्यावश्यकतामुपस्थापयामि ।

  • को नाम सदाचारः ?

धर्मार्थकामोक्षाख्याश्चत्वारः खलु पुरुषार्थाः । इदानीम् अर्थकामौ एव अपेक्ष्येते, धर्ममोक्षौ उपेक्षितौ स्तः । वस्तुतः, धर्मादेवाभ्युदयनिःश्रेयससिद्धिः । यतोSभ्युदयनिःश्रेयससिद्धिः स धर्मः । वेदोsखिलो धर्ममूलम् । धर्मः सदाचारमूलः । वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ।। सदाचार एव धर्मलक्षणम् । सतामाचार एव सदाचारः । वेदमूलकः विश्वजनीनः कृत्याकृत्यविवेकवूर्वकव्यवहारः सदाचारः । मनुराह- यस्मिन्देशे य आचारः पारम्पर्यक्रमागतः । वर्णानां सान्तरालानां सः सदाचार उच्यते । सदाचारस्यापि मूलं श्रुतिस्मृत्यादिशास्त्राण्येव । यतो हि मनुष्याणां कृत्याकृत्यविचारः शास्त्रादेव भवति । उक्तञ्च भगवता श्रीकृष्णेन - तस्माच्छास्त्रं प्रमाणन्ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि । सदाचार एव सत्परम्परायामनुवृत्तः सन् संस्कृतिपदवाच्यो भवति । या वेदमूलिका सदाचारप्रधाना संस्कृतिः, सा वैदिकसंस्कृतिः । सैव सनातनसंस्कृतिः । सा प्रथमा संस्कृतिः विश्ववारा । तदितरा विकृतिः । संस्कृतेः परिपालनात्मकेन संस्कृतेनोपायेन विकृतिरपाकरणीया । वस्तुतः स्वधर्माचरणमेव रोगनिवृत्तिहेतुः । उक्तञ्च -

स्वधर्माचारयुक्तञ्च दीक्षितं हरिसेवकम् । गुरुदेवातिथीनाञ्च भक्तं सक्तं तपःसु च ।।

व्रतोपवासयुक्तञ्च सदा तीर्थनिषेविणम् । रोगा द्रवन्ति तं दृष्ट्वा वैनतेयमिवोरगाः ।।

साम्प्रतमत्र सदाचारापरपर्यायस्य स्वधर्मस्य पालनात्कथं रोगनिवृत्तिः कथञ्च तदुपशम इति शास्त्रसरणिमनुसृत्य विचार्यते । शास्त्रे सदाचारिणि रोगोपद्रवभीतिरेव न भवतीति बहुशः प्रोक्तमस्ति । सदाचारहीनो रोगशोकाक्रान्तो भवति । सदाचारविहीनस्तु सर्वशास्त्रविदपि मूर्खवन्निन्द्य एव । यथाह व्यासः-  

आचाराल्लभते चायुराचाराल्लभते प्रजाः । आचारादन्नमक्षय्यं अचारो हन्ति पातकम् ।।

आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः ।

छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ।।

तत्र साम्प्रतिकक्रूराणुरोगोपद्रवनाशाय सदाचारान्तर्गतेषु सत्सु वहुषु विषयेषु, प्रकृते केवलं चत्वार एव विषया विचार्यन्ते । भक्ष्याभक्ष्यविचारः, स्पृश्यापृश्यविचारः, नित्यकर्मानुष्ठानम्, अध्यात्मविद्यानुशीलनञ्च । एतेषां नियमानां परिपालनेन स्वाभाविकानां क्षुधादिव्याधिभिन्नानां कर्मजानां, दोषजानां, मानसानां रोगाणां तदुपद्रवाणाञ्च भयं नभवतीति शास्त्रकाराणामभिमतम् ।

  • भक्ष्याभक्ष्यविचारः

भोजनं सात्त्विकराजसतामभेदेन त्रिविधं प्रसिद्धम् । तद्यथा –

आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।। रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ।। 

कट्वम्ललवणात्युष्णतीक्ष्णरुक्षविदाहिनः ।। आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ।।

यातयामं गतरसं पूति पर्युषितं च यत् ।। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ।।

मद्यमांसादिद्रव्यम् अमेध्यम् । साम्प्रतं कृत्रिमशीतागारे स्थापितं भोजनं यातयामम् ।  गतरसं पर्युषितञ्च हठात् कृत्रिमोपायेन शीतागारे स्थाप्यते । तत्रैव रोगाणवो बर्द्धन्ते । ज्वर-काश-प्रतिश्यायायादयो रोगास्तु रोगाणुवृद्धिलक्षणानि । शूनागारतः श्वानजतुकाशीविषादिप्राणीनाम् मांसादनेन वा प्रादुर्भूता रोगाणवः नूनमभक्ष्यभक्षणेनैव बर्द्धन्ते । स्वानुकूलवातावरणे एव तेषां वृद्धिरिति भक्ष्याभक्ष्यविवेके पत्थ्यापत्थ्यविवेके च सति रोगाणुसङ्क्रमणसम्भावना नूनं न्यूना भवतीति ज्ञेयम् । साम्प्रतिकेनोदाहरणेनापि तत्सिद्ध्यति । भोजनञ्च ऋतुचर्यानुकूलं भोक्तव्यम् । श्रावणे वर्जयेत्साकं दधि भाद्रपदे त्यजेत् ....।  समयचर्याया अपि निर्देशोस्ति – दिनान्ते च पिबेद्दुग्धं निशान्ते च पिबेत्पयः । भोजनान्ते पिबेत्तक्रं किं वैद्यस्य प्रयोजनम् ? भोजनान्ते जलं विषम् । गव्यमिश्रितं भोक्तव्यम् । मासपर्यन्तमपि गव्यहीनस्यान्नस्य भोजने आसुरदोषोपसंङ्क्रम इति महाभारते उक्तम्

बलप्रीतिविवर्द्धकं सात्त्विकं भोजनमपि कथं भुज्यत इति भोजनप्रकारेण तत्प्रभावो निर्धारितो भवति । सदाचारपरम्परायां भोजनात्प्राक् बलिवैश्वदेवविधानमावश्यकम् । वलिवैश्वेदेवकर्मणा भोजनस्य यज्ञशेषत्वम् अमृतत्वं च सिद्ध्यति । तेन यज्ञशिष्टामृतभोजिनां कल्याणावाप्तिरिति शास्त्रीयः सिद्धान्तः । प्रतिदिनं यज्ञविधानानन्तरं सायं प्रातरेव परिमितं भोक्तव्यम् । पौनःपुन्येन भोजनं न करणीयम् । धौतवासा प्रक्षालितपाणिपादः भस्मना जलेन वा वेदिकां निर्माय तदुपरि भोजनपात्रं संस्थाप्य, जलावर्तनं च विधाय, पितुन्नु स्तोषं महो, अन्नपतेन्नस्य नो, इति ब्रह्मार्पणं ब्रह्महविरिति च विभाव्य तदीयस्तुतिपुस्सरं भोजनं कार्यम् । भूपतये भूवनपतये भूतानां पतये च समर्प्य भोक्तव्यम् । भोजनविधानं शास्त्रेष्वेवं निर्दिष्टमस्ति –

पूजयेदशनं नित्यं अद्याच्चैनमकुत्सयन् । दृष्ट्वा हृष्येत् प्रसीदेच्च प्रतिनन्देच्च सर्वश: ॥
पूजितं ह्यशनं नियं बलमूर्जं च यच्छति । अपूजितं तु तद्भुक्तं उभयं नाशयेदिदम् ॥
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् । अपुण्यं लोकविद्विष्टं तस्मात् तत्परिवर्जयेत् ॥

भोजने भोज्ये भोक्तरि च भगवद्भावः कथमनुवर्त्यते इति प्रतिदिनमावर्त्यमानं श्लोकमिमं विभावयामः  -

अन्नं ब्रह्मा रसो विष्णुः भोक्ता देवो महेश्वरः । एवं ज्ञात्वा तु यो भुङ्क्ते सोsन्नदोषैर्न लिप्यते ।।

इदानीं सर्वे सर्वेभ्यो विभ्यति । कस्य शरीरे रोगाणवः सन्तीति न ज्ञायत इति । सहभोजने पारस्परिकरोगसंक्रमसंभावना भूयसी भवति । तदर्थमेकाकिना भोक्तव्यमिति शास्त्रीयो निर्देशः । सदाचारशीला एव पङ्क्तिपावना भवन्ति, नान्ये । विषयोsयं वेदव्यासेन पूर्वमेव संसूचितमिति तदीयामुक्तिमनुपश्यामः- 

अप्येकपङ्तौ नाश्नीयात् संवृतः स्वजनैरपि ।

को हि जानाति किं कस्य प्रच्छन्नं पातकं महत् । भस्मस्तम्भजलद्वारमार्गैः पङ्क्तिञ्च भेदयेत् ।

  • स्पृश्यापृश्यविचारः

वैदिकसनातनसंस्कृतौ स्पृश्यत्वमस्पृश्यत्वञ्च वस्तुनो गुणकृतमिति स्पृश्यत्वास्पृश्यत्वविचारो वहुधा विधीयते । काककुक्कुरगर्दभमार्जारादीनामस्पृश्यत्वम्, नखकेशास्थिचर्मशवादिवस्तूनाम् अशुचित्वम्, कृतमलत्यागस्य,  अकृतस्नानस्य, रजस्वलायाः, शवस्पर्शादिकार्यरतानां चाशुचित्वं शास्त्रे प्रसिद्धम् । मृताशौचस्य जननाशौचस्य च व्यवस्था शास्रेषु दृश्यते । स्पृश्यास्पृश्यत्वव्यवस्थायाः अविकृतं मूलं चिन्तनं खलु पापापरपर्यायाणां सूक्ष्मतमानां रोगाणूनामसंङ्क्रम एवेति निश्चीयते ।

  • नित्यकर्मानुष्ठानम्

उदयास्तमयं यावन्न विप्रः क्षणिको भवेत् । नित्यनैमित्तिकैर्युक्तः काम्यैश्चान्यैरगर्हितैः ।। इति शास्त्रीयसरणिः । प्रातर्ब्रह्ममुहूर्ते जागरणम्, इष्टदेवतास्मरणम्, ॐकारनादः, मृज्जलाभ्यां कायशुद्धिः, भस्मचन्दनादिभिर्ललाटे तिलककरणम्, सन्ध्योपासनम्, सूर्यायार्ध्यदानम्, सूर्यनमस्कारः, सूर्योपस्थानम्, गायत्रीमन्त्रजपव्याजेन भर्गस्मरणम्, सस्वरं वेदाध्यनम्, देवो भूत्वा देवयजनम्, वानस्पत्यैरौषधिभिः धूपाघ्रापणम्, गोघृतेन दीपोद्दीपनम्, आरार्तिक्यकर्मणि शङ्खघण्टादिवाद्यवादनम्, अग्निहोत्रनाम्ना गोघृतादिहवनपुरस्सरं वातावरणशुद्धिः, हविष्यान्नमात्रोपभोगः, दीर्घलघुशङ्कानिवृत्यनन्तरं हस्तपादादिशुद्धिः, गृहाद् वहिर्गत्वा गृहागमनसमकालमेव हस्तपादादिशुद्धिः, वस्त्रपरिवर्तनम्, अशुचिजनस्पर्शानन्तरं सद्यः स्नानम्, यथाकालं एकादशी-प्रदोषादिव्रतानुष्ठानम्, प्रतिपक्षं प्रतिसप्ताहं वा उपवासः, ऋतुचर्या, व्यवस्थितदिनचर्या चेति वहुविधकृत्यानां समवायः खलु नित्यकर्मणि अन्तर्भवति । एतेषु एकैके उपाया अपि कोरोनादिविषाणुप्रभावनिराकरणसमर्था दृश्यन्ते, चेत् समुदितानां कर्मणामनुष्ठाने कृते सति तादृशविषाणुदोषप्रवेशसम्भावनैव न भवतीति किं पुनर्वक्तव्यम् ।

  • अध्यात्मविद्यानुशीलनञ्च

पुरा युद्धावसरे ब्रह्मास्त्र-पाशुपतास्त्र-नारायणास्त्रादिदिव्यास्त्रप्रयोगो भवति स्म । तत्र यस्तान्यस्त्राण्यस्त्रैः प्रतिकरोति स पराजितो भवति । यस्तु ध्यानेन तेषामाध्यात्मिकं स्वरूपं बुद्ध्वा श्रद्धया तानि प्रणमति स एव विजयी भवति । सा एव स्थितिः कोरोनायाः । कोरोनां पराजेतुम्  अध्यात्मविद्यानुसरणं शरणम् । अध्यात्मविद्या विद्यानाम् । विद्ययामृतमश्नुते । सा विद्या या विमुक्तये । अध्यात्मविद्यानुशीलनेन मनुष्य आभ्यन्तरबलसम्पन्नो भवति । श्रीमद्भगवद्गीतादिग्रन्थाध्ययनेन जनः मृत्युभयादपि निर्भीको भवति । युद्धाद् विरक्तोsर्जुनः गीताज्ञानबलादेव पुनर्युद्धे प्रावर्तत । गीतायामुपदिष्टमात्मस्वरूपं यथा -

जायते मृयते वा कदाचिन्नायं भूत्वा भविता वा न भूयः ।

अजो नित्यः शाश्वतोsयं पुराणो न हन्यते हन्यमाने शरीरे ।

नाहं मनुष्यो न च देवयक्षौ नब्राह्मणक्षत्रियवैश्यशूद्राः ।

न ब्रह्मचारी न गृही वनस्थो भिक्षुर्न चाहं निजबोधरूपः ।।

शरीरं क्षणभङ्गुरम्, आत्मा अजरोsमरश्च, नायं हन्ति नहन्यते इत्यादिस्वात्मतत्त्वानुचिन्तनेन जन मानसिकबलसम्पन्नो भवति । आध्यात्मिकसाधनायामेकान्तसेवनस्य महन्महत्त्वं भवति ।

वासे बहूनां कलहो भवेद्वार्ता द्वयोरपि । एक एव चरेद् विद्वान् कुमार्या इव कङ्कणम् ।।

एकान्ते सुखमास्यतां परतरे चेतः समाधीयताम् । पूर्णात्मा सुसमीक्ष्यतां जगदिदन्तद्बाधितन्दृश्यताम् ।

प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतां, प्रारब्धं त्विह भुज्यतामथ परं ब्रह्मात्मना स्थीयताम्।

 ईदृशशभावनया जनः मानसबलसम्पन्नो भवति । तेन तस्य शारीरमपि बलं बर्द्धते । रोगस्याक्रममणं न्यूनं भवति । इदानीन्तनानां गवेषकानां शोधनिष्कर्षोयमस्ति यद् केवलं कोरोनाकारणतः यावती समस्या सम्भवति ततोsधिका समस्या तद्भीतिकारणाद् भवतीति । भीतिनिवृत्तये अध्यात्मविद्यानुशीलनं सर्वाधिकं महत्त्वमावहति । युद्धे शस्त्रास्त्रप्रहारेण रक्तबीजस्य बधो न सम्भवति, शस्त्रास्त्रप्रहारेण तु प्रतिरक्तकणं रक्तबीजाः प्रबर्द्धन्ते । तन्निवारणाय शक्तिसमाराधनं खलूत्तम उपायः । शक्तिसमाराधनञ्च आध्यात्मिकसाधनायाः विषयः ।  तापत्रयोन्मूलनाय आध्यात्मिकसाधनम् एव ऐकान्तिक आत्यन्तिको वा हेतुः । यमनियमादिसाधनाभ्यासः, भगवद्ध्यानम्, एकाग्रताया अभ्यासः, मनो निरोधः, चित्तस्य निर्मलतायाः निश्चलताया च अभ्यासः, परतत्त्वानुभवः, निरतिशयानन्दानुभवश्चेति आध्यात्मिकसाधनायाः स्वरूपम् । भगवद्गीतायामुक्ता अमानित्वमदम्भित्वं.... शौचमात्मविनिग्रहः, अरतिर्जनसंसदि । इत्यादयः आध्यात्मिकसम्पदः अनुसन्ध्येयाः ।

  • निष्कर्षः -

सर्वज्ञाननिधानं खलु संस्कृतम् । संस्कृतवाङ्मयान्तर्गताः बहवो विषयाः साम्प्रतिककोरोनाक्रमण- भीतिनिराकरणाय पुनरनुसन्धेयाः । प्राच्यसनातनसंस्कृतिः पुनरनुसरणीयाः । तत्र विद्यमानेषु बहुषूपायेषु तेषां समन्वितं रूपं सदाचारः । सदाचारपरिपालनेनैव रोगभीतेर्मुक्तिरिति निश्चप्रचम् । परं इतोपि जनाः स्वसंस्कृतिपालने प्रमादं कुर्वन्ति चेत्तेषां कृते व्यासोक्तिर्नविस्मर्तव्या । ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे । धर्मादर्थश्च कामश्च स हि कस्मान्न सेव्यते  । इदानीं वयं ततोsप्युच्चैस्तरां वदाम । भोःभोः जिजीविषवो मनुष्याः, क्रूराणोः नैव विभ्यतु । जीवनं महत्त्वपूर्णमस्ति । जीवनरक्षायै आसुरपद्धतिं त्यजन्तु । ऋषिपरम्परामनुसरन्तु । वैदिकसनातनधर्मं पारिपालयन्तु । तदनुकूलं सदाचारमाचरन्तु ।

अभक्ष्यभोजने त्यक्तेsस्पृश्यस्पर्शवर्जने । सदाचारपरेsध्यात्मतत्त्वचिन्तनतत्परे ।

यज्ञानुष्ठानतो योगाभ्यासतो वेदघोषतः । सर्वे दोषाः क्षयं याति न विषाणोर्भयं भवेत् ।

अन्ते आन्तर्जालिकमन्ताराष्ट्रियं कार्यमिदं सम्पादयन्तः L.D.Art कलेजसम्बद्धाः आयोजकाः धन्यवादार्हाः । विशेषतोsयं कार्यक्रमसंयोजको विपश्चिदपश्चिमः श्रीमान् गजेन्द्रकुमारपण्डामहोदयः भूरिशो धन्यवादार्हः । एतेन वसुधैव कुटुम्बकमिति ऋषिघोषः पुनराविष्कृतः । तदर्थमेतं पौनः पुन्येन हृदयतः सभाजयामि ।

(L.D.Art कलेज-इत्यनेन समायाेजिते आन्तर्जालिकमन्ताराष्ट्रिये कार्यक्रमे प्रस्तुतिरेषालेख अस्माभिः प्रकाशितः)

 

 gurupdsubedi@gmail.com

 

भवतः का प्रतिक्रिया ?

like
14
dislike
0
love
2
funny
2
angry
0
sad
0
wow
0
विज्ञापनक्षेत्रम्
विज्ञापनक्षेत्रम्